________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandie
S
सिद्धेः, नहि मरीचिकाखारोपितेन जलेन तृष्णजां काचिदर्थसिद्धिः, अथ वास्तवोऽपि विकल्पेन न निश्चीयते तदा कथं तस्य विकल्पगोचरखं ? कथं चाविकल्पगोचरस्य ज्ञानात्मनस्तस्य सत्चनिश्चयः, विकल्पस्य वा तादृशस्य कथं विकल्पखं निश्चयरूपखात्तस्य ? इति, अथावास्तवोऽपि विकल्पेन न निश्चीयते, तदा तस्यावास्तवखं ज्ञानानात्मकतया केन निश्चीयते? कथं वा तस्यापि शश विषाणायमानस्य परप्रतिपादकता स्यात् ? चित्रज्ञाने च नीलपीतहरिताद्याकारान् संवेदयन् ज्ञानं किं क्रमेण संवेदयते योगपद्येन वा? न तावत्क्रमेण चित्राकाराप्रतिभासप्रसङ्गात् , क्षणिकखेन ज्ञानस्य तावत्कालमवस्थानाभावाच्च, नापि योगपद्येन तद्धि नानाकाराननेकतया संवेदयेदेकतया वा ? नाबस्तदव्यतिरिक्ततया विरुद्धधर्माध्यासेन ज्ञानस्यापि नानाखप्रसङ्गात् , नद्वितीयः, परस्परविरुद्धानामाकाराणामेकता प्रतीतेरनुपपत्तेः ततश्चित्रसंवेदनादपि नाभेदसिद्धिः, भवतु वा ज्ञानादर्थस्साभेदो, मा वा भूत , परं य इमे इच्छाद्वेषप्रयत्नसुखदुःखहर्षादयोऽन्तर्मानसं सकलपाणिभिरनुभूयन्ते, ते किं ज्ञानाद्भिद्यते नवा उभयथाऽपि च ज्ञानेन सह नियमेनोपलभ्यन्ते न वा ?, यदि तावज्ज्ञानाद्भिद्यन्ते तेन च सह नोपलभ्यन्त इति पक्षस्तदास्वसिद्धान्तव्याघातः, सर्वभावानामपि ज्ञानेन सहोपलम्भनियमेन तस्मादभेद इति हि वः सिद्धान्तः, अथ ज्ञानेन सहोपलभ्यन्ते ततो भिद्यन्ते चेति पक्षस्तदा इच्छादिभिरेवानेकान्तः सहोपलम्भेऽपि तेषां ततो भेदात् , अथ ज्ञानेन सह नोपलभ्यन्ते तस्माच्च न भिद्यन्ते तदा भागासिद्धो हेतुः, इच्छादीनां ज्ञानादभेदसाधनेऽपि सहोपलम्भाभावात् , अथ ज्ञानेन सहोपलभ्यन्ते तस्साच न भिद्यन्ते, यत्किल बाझानपि नीलादीनात्मसात्कतुमिष्टे, तज्ज्ञानं कथमान्तरान् शश्वत्सह संवसतिदुर्ललितान् इच्छादीनात्मना सहकात्म्यसुखं नानुभावयिष्यति ? इति चेत् न, प्रति पुरुष हि जलादिज्ञानानन्तरं तत्रेच्छा, ततःप्रयत्नस्ततस्तदुपादानं, ततः सौहित्यमित्याद्या अर्थक्रियाः क्रमेणो
ANSAR
For Private and Personal Use Only