________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
|वृत्तिः
५ाल
॥९४॥
विजातीयानामर्थानां ज्ञानेन सह अभेदसौहार्दसाधनायोद्युञ्जानः सहोपलम्भोऽत्यन्तसजातीयतया सगोत्रं ज्ञानमपि भिन्दन् कथं खीकर्तव्यो भवेत् ? न च सहोपलम्भनियमाद्धेतोआनादर्थस्याभेदः शक्य उपपादयितुं, यथा हि ज्ञानेन सहोपलम्भनियमादर्थस्य ज्ञानात्मता प्रसाध्यते, तथाऽर्थेनापि सहोपलम्भनियमाज्ज्ञानस्यार्थात्मता प्रसङ्गः केन वार्यते ? नह्यर्थोपधानमन्तरेण निरालम्बनस्य ज्ञानस्य कदाचिदुपलम्भ उत्पादो वा सम्भवी, एवं च सहोपलम्भनियमस्य समखेन विनिगमनायां प्रमाणाभावादुभयोरप्युभयात्मकवं प्रसज्जेत, तथा चोभाभ्यामपि परस्पराथक्रियाणां साधनं बाधनं चापद्येत, तस्मात्प्रतिनियतोपलम्भ
सामग्रीसाहचर्यनियमात्सहोपलम्भोऽपि ज्ञानार्थयोर्भविष्यति, विरुद्धधर्मसंसर्गनियमाद्भेदोऽपीति को विरोधः? इत्यप्रयोजको 8 हेतुः, भवतु वा ज्ञानार्थयोरभेदस्तथाऽपि तमस्तिरोहितो घटादिरालोकेन सह नियमेनोपलभ्यते, तसाच भिद्यत इति भेदेऽपि विपक्षे 8
गतखादनैकान्तिकोऽयं हेतुः, एतेन यदुक्तं भेदस्य हि व्यापकः सहोपलम्भानियम इति तत्प्रत्युक्तं, स्वस्वकारणसामग्रीभेदस्य भावानां भेदनिबन्धनत्वेन सहोपलम्भानियमस्य तळ्यापकत्वासिद्धेः, पुत्रेण सहायातः पितेत्यादौ बहुलं लोके भेदएव सहशब्दप्रयोगदर्शनात् , साध्यविपर्ययेण व्याप्तत्वाद्विरुद्धोऽप्ययं हेतुः, अन्वयव्यतिरेकी च हेतुर्भवद्भिः साध्यसाधनायोपादीयते सर्वथा भेदास्फुरणे च कान्वयः ? कसाच्च हेतोर्व्यतिरेको ग्रहीतव्यः, तदग्रहणाच्च सामर्थ्याभावेन कथं हेतुःखसाध्यं साधयेत ? अथ परप्रतिपादनार्थ हेतुप्रयोगः, परश्च विकल्पगोचरेणापि पक्षादीनां भेदेन प्रतिपादयितुं शक्यते ? इति चेत् न, सहि भेदो वास्तवोऽवास्तवो वा, सोऽपि विकल्पेन निश्चीयते न वा, यद्याद्यस्तदा वास्तवस्य भेदस्य विकल्पेन निश्चयात्कालात्ययापदिष्टो हेत:. अथावास्तवो विकल्पेन निश्चीयते तन, अवास्तवेन परप्रत्यायना
॥१४॥
For Private and Personal Use Only