________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
हीतरेतराभावः, एकस्याधिकरणतया प्रतीतिः, इतरस्य तु प्रतियोगितया, इतरस्येतरसिन्नभाव इति व्युत्पादनात् , भवति हि नीलमतन्न पीतं, नीले पीतं नास्ति, नीलं पीतात्मकं न भवतीति यावदुक्तं स्यात् , तथेहापि नीलमिदं न ज्ञानमित्यादिना क्रमेणाऽऽ| गोपाङ्गनमन्तर्मुखबहिर्मुखाकारतया भेदेन प्रतीयमानयोर्ज्ञानार्थयोः कथमभेदः सिध्येत् ? नापि तृतीयः, भिन्नदेशकालजात्यादीनां | स्वप्रकाशवपरप्रकाश्यखादीनां च व्यावर्तकधर्माणां ज्ञानार्थयोः प्रत्यक्षेण ग्रहणात् , नापि चतुर्थः, तद्धि एकोपादानवं वा, एका|धिकरणखं वा, नाद्यः, ज्ञानस्यात्मोपादानखात् समनन्तरप्रत्ययोपादानखाद्वा, पटस्य च तन्तूपादानखात् तन्तूनां चांशूपादानखात् ,
नाऽपि द्वितीयः, ज्ञानस्य शरीरायधिकरणखात् अर्थस्य च पृथिव्याद्याधारखात् , अपि च नीलज्ञानेनात्मानं संवेदयता पीताद्याका| रेभ्यो विज्ञानेभ्यो व्यावृत्ततयाऽऽत्मा संवेद्यः, एवं हि तेनात्मा सम्यक संविदितः स्यात् , तथा च यथा तेभ्यो व्यावृत्ततयाऽऽत्मा गृही| तस्तथा तद्विशेषणेभ्यः पीतादिभ्योऽपि बाह्येभ्यः, यथा चैत्रः स्वं मैत्राद्भेदेन गृह्णानस्तद्दण्डकुण्डलादिभ्योऽपि तथैव गृह्णाति, एवं च कथं
ज्ञानार्थयोरभेदः स्यात् ? अथ परेण परस्यावेदनात्सुसंवेदनमात्रनिमनखात्सर्वसंवित्तीनां परस्परवा नभिज्ञतया क ज्ञानान्तरेभ्यो | व्यावृत्तिग्रहो विवक्षितज्ञानस्य, तथा च कथं तद्विशेषणेभ्योऽपि ? इति चेत् न, पुरुषान्तरज्ञानेन पुरुषान्तरज्ञानस्य ग्रहणात् खज्ञा| नस्यापि मरणप्रत्यभिज्ञानादिनाऽनुसन्धानात् , अन्ततः सर्वज्ञज्ञानगोचरत्वाच, तथा हि सर्वज्ञः प्राणिनां चेतांसि चेतयते न वा? | न चेत्सर्वज्ञताहानिः, अथ चेतयते सिद्धं तर्हि परेण परस्य वेदनं, योऽपि नियमेन सहोपलम्भो ज्ञानादभेदसाधनायोपात्तः स ज्ञानस्यापि भेदं साधयति, तथाहि परस्य विरुद्धनीलपीतहरिताद्याकारसमूहावलम्बि ज्ञानं कदाचित्तावदुपलभ्यते, तच्च तान् आका| रान गृह्णाति चेत्तदा निराकारं प्राप्नोति, गृह्णाति चेत् युगपन्नानाविरुद्धाकारग्रहणेन यावदाकारं ज्ञानस्यापि भेदप्रसङ्गात् , एवं च
For Private and Personal Use Only