________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वात्र प्राकृतत्वात् , 'लिङ्ग सम्यक्त्वस्य अनुमापकं तत्कार्यत्वात् , यदनन्तरं नियमेन यद् उत्पद्यते, तत्तस्य कार्यम् इतिन्यायात्, तथा च वहिरिव धूमेन, तेन सम्यक्त्वम् अनुमीयते, इतः स एव लिङ्गं, न तु अनन्तानुबन्धिनाम् उपशमः, कुत एतद् इति चेत्, तत्राह-मोहयति चारित्रं प्रति विचित्रताम् आपादयति इति मोहनीयम् , 'कृत्यलुटोऽन्यत्रापि' इति कर्तर्यनीयरः । मुह्यति आवियते अनेनेति वा मोहनीयम् , चारित्रस्य देशसर्वविरतिरूपस्य मोहनीयं चारित्रमोहनीयम् । 'कष्यन्ते' प्राणिनोऽसिनिति कषः, संसारस्तस्य आयस्तल्लाभहेतुत्वात् , कषम् अयन्ते प्राणिन एभिरिति वा कषाया अनन्तानुबन्ध्यादयः पोडशः। नो कषाया अपि नव कषायसहचरत्वात् कषायाः, एवं पञ्चविंशतिश्चारित्रमोहनीयं, चारित्रावारकमोहनीयकर्मतया 'येन' यसात् हेतोः 'समादिष्टाः' निरूपिता भगवद्भिरिति गम्यते, अयमर्थः द्विविधं हि मोहनीयम् , दर्शनमोहनीयं चारित्रमोहनीयं च । | तत्र दर्शनमोहनीयं त्रिधा, सम्यक्त्वमिश्रमिथ्यात्वभेदात् , चारित्रमोहनीयमपि द्विधा, कषायनोकषायभेदात् , तदुक्तं "मोहेइ मोहणीयं तं पि समासेण होइ दुविहं तु ॥ दसणमोहं पढमं चरित्तमोहं भवे बीयं" ॥१॥ "दंसणमोहं तिविहं सम्मं मीसं च तह य मिच्छत्तमिति" । "ज पि य चरित्तमोहं, तं पि य दुविहं समासओ होइ" "सोलस जाण कसाया नव भेया नोकसाया|ण" । तथाच चारित्रमोहनीयतया चारित्रम् आवृण्वते कषायाः, न सम्यक्त्वं । नहि अन्यकार्यम् अन्यः करोति । तथा सति मृत्पिण्डोपि पटं कुर्यात् । करणे वा सर्वस्य सर्वकरणप्रसङ्गात् । एवंच चारित्रमोहनीयस्यैव सम्यक्त्वावारकत्वे दर्शनमोहनीयस्य अपार्थक्यं प्रसज्येत । तत्कार्यस्य चारित्रमोहनी येनैव करणात् । तथा च मोहनीयस्य द्वैविध्यं भज्येत । एवं च यो यद्विरोधी तदभावस्तत्सत्त्वं गमयेत् । यथा तमोऽभावः प्रकाशखं, विरोधिनश्चारित्रस्य कषायाः, तसात् तदुपशमश्चारित्रम् गमयति, न
पिता भगवत्वमिश्रमिथ्यात्वा पटमं चरित्तमोह मा होइ" "सो
SACRACKERAYARI
For Private and Personal Use Only