SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir पंचलिंगी बृहद्वृत्तिः ॥३॥ मिथ्याभिनिवेशवतः संवेगः, तस्य कुतीर्थ्याद्यागमभावितान्तःकरणतया तात्विकमोक्षस्वरूपानभिज्ञत्वेन तत्त्वतस्तदभिलाषाभावात इति, तद् उपशमानन्तरं संवेगस्य । नचाऽसंविग्नस्य निर्वेदः, तस्य नरकादिदुःखैः आत्मनः तन्मयत्वभावनाऽयोगादिति, तदनन्तरं निर्वेदस्य । न च अनिर्विण्णस्य अनुकम्पा, आत्मौपम्येन सर्व पश्यतो हि सा स्यात् , तस्य च ऐहिकसुखाभिलाषुकतया तदभावात् , इति तदनन्तरम् अनुकम्पायाः ॥ न च निरनुकम्पस्य वास्तवम् आस्तिक्यं, वस्तुतोऽनुकम्पावत एव तात्त्विकास्तिक्यनिश्चयात, इति तदनन्तरम् आस्तिक्यस्य, इति । सम्यक्त्वकायत्वेऽपि एषाम् एवम् आनन्तयेक्रमेण उत्पादात् इत्थम् उपन्यासः ॥ यद्वा आस्तिक्यस्य सर्वगतत्वेन बहुविषयतया पश्चादभिधानम् , अथवा पश्चानुपूर्त्या आस्तिक्यादिक्रमेण एषाम् उत्पादात् प्रथमं तथा पाठप्रसक्तौ अपि यथा प्रधानन्यायम् आश्रित्य उपशमादिक्रमेण पाठक्रमो दर्शित इति गाथार्थः ॥ १॥ इहच 'पढमिल्लुयाण उदए नियमा संजोयणा कसायाणं ।। सम्मइंसणलंभं भवसिद्धीया विन लहंति ॥ इत्याद्यागमप्रामाण्येन केचिद् अनन्तानुबन्धिनाम् उपशमं सम्यक्त्वलिङ्गतया चक्षते, तन्निरसितुं संप्रति प्रथमलिङ्गं व्याचिख्यासु-र्यस्य उपशमः सम्य• क्त्वलिङ्गं भवति, तद् दर्शयितुमाह| मिच्छाभिनिवेसस्स उ नायवो उवसमो इहं लिंग ॥चारित्तमोहणीयं जेण कसाया समाइट्टा ॥२॥ ___ व्याख्या 'मिथ्या' विपरीतोऽभिनिवेशो' मानसो निश्चयः, सर्वज्ञवचनविपरीतार्थपक्षपात इत्यर्थः, तस्य 'तुरवधारणे, तेन तस्यैव 'उपशम:' सर्वथापगमः, मिथ्यात्वक्षयोपशमजन्यं हि सम्यक्त्वं, तथाच तदुदयानन्तरमेव मिथ्यात्वकार्यों मिथ्याभिनिवेशः, तद्विरोधित्वात् दिवाकरोदयानन्तरं तम इव उपशाम्यत्येव, 'ज्ञातव्यो विज्ञेयः, 'इहेति' अत्र लिङ्गविचारप्रक्रमे, अनुवार RRRRRRASS For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy