________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथाच उपशमादीनां बाह्यशुभचेष्टालेन प्रत्यक्षतया लिङ्गत्वम् उपपन्नम् ॥ तदुक्तम्, – “तं उवसमसंवेगाइएहिं लक्खिज्ज पउवाएहिं । आयपरिणामरूवं बज्झेहिं पसत्थजोगेहिं ?" अन्यथा बाह्यत्वं तेषां न संगच्छेत, लिङ्गलिङ्गिनोरात्मधर्मत्वाविशेषात्, अथवा मा भूवन् अस्मदादिप्रत्यक्षाणि अमूनि, तथापि कुग्रहपरित्यागप्रज्ञापनीयत्वविधिबहुमाना विधित्यागादिभिः प्रत्यक्षाभिः प्रशस्तवाह्मचेष्टाभिरनुमितैः एभिः सम्यक्त्वम् अनुमीयते तादृग्रनदीपूरदर्शनानुमितेन वर्षेण अङ्कुरप्ररोहवदिति । अत एव उपसंहारे 'भावो नज्जइ पच्छाणुभावओ' इत्यादिना 'तविहचिट्ठा अवसियेत्यादिना' 'तिविहचिट्ठाइ पुणो' इत्यादिनां च तादृग् बाह्यचेष्टानुमेयत्वं प्रायः प्रत्येकम् एषां सूत्रकार एव वक्ष्यति ॥ एवं च यस्य साक्षात् तनोक्तं तदेतद्नुखारेण स्वयम् अभ्यू, यथा आस्तिक्यस्य देवादितखेषु सम्यक् प्ररूपणादिको वाग्व्यापारः, ननु एकेनैव अनोपाधिकसम्बन्धनता लिङ्गेन साध्यसिद्धिश्चेत् किं लिङ्गपञ्चकाभिधानेन, न चेत् लिङ्गसहस्रेणापि सा न स्यात् । प्रतीतिदायर्थं चेत् न, एकेनैव साध्या| विना भाविना तेन तत्सिद्धेः, एवं च बहुलिङ्गाभिधानेऽधिकं निग्रहस्थाने प्रसज्येत १, इति चेत्, न, जल्पादिकथायामेव अस्य प्रस ङ्गस्य अवतारात् । शास्त्रस्य तु शिष्यव्युत्पादनार्थत्वात् तस्य च कस्यचित् केन चिलिङ्गेन तद् भावात् भूयो लिङ्गाभिधानेऽपि न दोषः यद्वा शिष्याणां मेधावृद्धये तथा मन्दमेघसाम् एकेन अविनाभाविनापि प्रतीतिदायभावात् तदर्थमपि शास्त्रकाराणां बहुधापि लिङ्गाभिधानं न दोषाय । प्रमाणग्रन्थेषु एकस्मिन्नेव साध्ये अनेकानुमानप्रयोगोपलम्भात्, यदिवा भगवदुभिरागमे समुदितानाम् एषां प्रतिपादनात् समुदिततद्व्युत्पादनप्रवृत्तस्य प्रकरणकारस्य न कश्चिद् दोषः, अत्र च एषाम् एवं क्रमोपन्यासः किमर्थम् १ इति चेत्, उच्यते, मिथ्याभिनिवेशोपशमस्य सम्यक्त्वप्रथमकार्यत्वेन प्रधानत्वाद् आदौ उपन्यासः । न च
For Private and Personal Use Only