________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्धृत्तिः १ लि.
मावेन पार्थक्याऽविवक्षणात्। तथाहि शुश्रूषायास्तावत् आस्तिक्ये अन्तर्भावः, सत्येव तसिन् 'यूनोवैदग्ध' इत्याधुक्तलक्षणायास्तस्याः संभवात , तथाच तत्कार्यत्वेन तस्यास्तत्रैव अन्तःप्रवेशः, धर्मरागदेवगुरुवयावृत्यनियमयोस्तु संवेगप्रभवतया तत्रान्तर्भावः, तथाच आचार्य एव संवेगलक्षणं व्याचक्षाणो वक्ष्यति । कइया होही सो वासरुत्ती, इत्यादि, तथा 'चेइय जइ सुवजुञ्जईत्यादि, नचैवं रूपोद्यतविहारपरिणाम विना अन्यो धर्मरागो नाम, नापि प्रत्यहं खशरीरवित्तादेश्चैत्यसाधूपयोगतदध्यवसायौ अन्तरेण अपरो देवगुरुवैयावृत्त्यनियमः, तसाद् उपपन्नम् अवधारणार्थ पश्चेति, 'भवन्ति' संपद्यन्ते, अत्र समुदितापेक्षया बहुवचनं, 'सम्यगिति प्रशंसार्थो निपातः, तस्य भावः सम्यक्त्वं, मिथ्याखमोहनीयोपशमक्षायोपशमक्षयसमुत्थो देवादिषु तथेति प्रतीतिरूपो जीवपरिणाम इत्यर्थः ॥ यथोक्तम्-"खयउवसमाइएहिं दंसणमोहस्स जीवपरिणामो ॥ जो होइ सुहसरूवो सो सम्मत्तं विणिहिट्ठो" ॥१॥ “या देवे देवता बुद्धिर्गुरौ च गुरुभावना, । तत्त्वेषु तत्त्वबुद्धिश्च सम्यक्खमिदमुच्यते" ॥१॥ तस्य लिङ्गानि, लिजयते गम्यते साध्यम् अनेनेति लिङ्गम् , व्याप्त्युपयिकपक्षधर्मतादिपश्चरूपोपेतं साधनम् । अनुमीयते हि अमीभिः कार्यैर्जीवपरिणामविशेषखाद् अतीन्द्रियमपि सम्यक्त्वं खकारणम् , ननु अप्रत्यक्षस्य लिङ्गिनः प्रत्यक्षेण लिङ्गेन अनुमितिर्भवति, धूमेन इव पर्वतनि| तम्बव्यवहितस्य वढेः, अत्र तु लिङ्गिन इव सम्यक्खस्य, तल्लिङ्गानाम् उपशमादीनामपि आत्मपरिणामभेदखेन अप्रत्यक्षखात् कथं तैरनुमितिः ? सत्यम् , इह उपशमाद्यभिव्यञ्जिकाः कदाग्रहपरिहारेण विधिना वीतरागवन्दनार्चनाद्याः कायिक्यो वाचिक्यश्च चेष्टा उपशमादिशब्दैरभिधीयन्ते उपचारात् , यथा मिथ्यावस्य अतीन्द्रियत्वेऽपि तदभिव्यञ्जिका लौकिकदेवपूजननमस्काराद्याः कायवाग्रव्यापारा, मिथ्यालं गीयन्ते, एतदेव च 'न करेइ सय मिच्छमित्यादि' ग्रन्थेन दर्शनसप्ततिकायां दर्शितं, तथा इहापि,
ERRAGARH
For Private and Personal Use Only