________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ACHHAMALEGACCE
व्यापकविरुद्धोपलब्धिः, भेदस्य हि व्यापकः सहोपलम्भानियमः, नहि गौनियमेनाश्वेन सहोपलभ्यतेऽवो वा गवा तयोः परस्परं भेदात् , ततो नीलादेरर्थस्य ज्ञानेन सह नियमेनोपलम्भान्दव्यापकस्य सहोपलम्भानियमस्य विरुद्धस्तनियमः तस्योपलब्धिः तयोरभेदं 'साधयति' भवति हि व्यापकविरुद्धोपलब्धौ तद्व्याप्यस्यापि निवृत्तिर्वविविरुद्धजलोपलब्धौ धूमनिवृत्तिवदिति यदाह है। कीर्तिः-सहोपलम्भनियमादभेदो नीलतद्धियोरिति, तमात् ज्ञानम् एव परमार्थसन्न बाह्योऽर्थः पुद्गलरूप इति, तनिराकत्तुमाह
जइ पुग्गला न हुजा आगारो किं न होइ सवत्था । सुविणो वि अणुहविजइ दिणोवलद्धो फुडं अत्था ॥८॥ PL व्याख्या-यदीति पक्षान्तरेऽव्ययं प्रायशः सर्ववादिनां पुद्गलास्तिवाभ्युपगमे न कस्यचित्तदसत्त्वाभ्युपगमः पक्षान्तरं, ततः
पूर्यन्ते अपरापरपरमाण्वादिसङ्घटनेन स्थौल्यपरिणाममापाद्यन्ते, तद्विघटनेन च गलन्ति-इसन्तीति निरुक्तविधिना पुद्गला मूर्ति| मन्तो बाधास्ते यदि न भवेयुभवदभिमतनानासाकारज्ञानात्मके जगति न स्युः, यदीत्यस्य नित्यं तच्छब्दापेक्षखात्तदा इत्यर्था
गम्यते, तेन तदाऽऽकारो नीलाद्याकारः 'किं न भवति? किमिति न जायते 'सर्वत्र' देशकालादौ, अयमर्थः-अनाद्यविद्यामुषि| तवैशयं ज्ञानमेव स्वमाकारं बाह्यतया आरोप्येदं नीलमित्याचाकारेण गृह्णाति, न तु वास्तवो नीलादिरर्थः कश्चिदस्तीति भवदभ्युतापगमः, अविद्यासम्बन्ध एव च ज्ञानस्य बहिरारोपेण स्वाकारग्रहणकारणम् , एवं च यथा तैमिरिकस्य केशान् अनवलम्ब्यैव सर्वत्र | केशोडकज्ञानमुपजायते, तथा शश्वदविद्योत्सङ्गसङ्गमलालनेन बाधनीलपीताद्याकारान् अनवगाहमानमपि ज्ञानं प्रसारितनिमीलिताक्षयोरविशेषेणेदं नीलमित्याद्याकारेण देशकालाद्यनियमेन जायेत, कारणसामय्यात्तत्सद्भावेऽपि वा कार्योत्पादानभ्युपगमे क्षिति
ACADARUNACHAR
For Private and Personal Use Only