________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
| बृद्धृत्तिः
S
पंचलिंगी
प्रागभाव एव भविष्यता, तदुपहितः कालोऽपि भविष्यन्निति व्यवहियते, एवं चानेकसमयसमूहरूपा आवलिका मुहूर्तादयोऽपि
कालविशेषव्यवहारा एकज्ञानसङ्कलनोपाधिना वर्णेषु पटव्यवहारवत्सङ्गच्छन्त एव, स च कालो वर्त्तनापरिणामाद्यभिव्यङ्ग्यः ॥९२॥ दतत्र पदार्थानां समयमात्रं स्वसत्तानुभूतिर्वत्तेना, द्रव्यखानुगमेन प्रयोगविलसाप्रभवो द्रव्यविकारः परिणामः, तथा हि ऋतुवि
| भागेन शीतवातातपादयस्तावदुपलभ्यन्ते, पादपेष्वपि च पल्लवप्रसवादयो नियतकाल एव प्रादुर्भवन्तो दृश्यन्ते, तदमीषां यन्४ यत्यं तेनावश्यं नियतहेतुजन्येन भवितव्यं, स च नियतो हेतुः काल इति, तथा च प्रयोगः-वृक्षेषु पल्लवादिपरिणामो वाझदिनिमित्तान्तरापेक्षा परिणामखात् , वस्त्रादिषु नीलादिपरिणामवत् , बाह्यं च निमित्तं काल इति स्थितं, तदेवं धम्मास्तिकायादीनां
युक्तिसिद्धलेऽपि यत्सूत्रे आगमविहितोपदर्शनं तदतीन्द्रियपदार्थेष्वाहत्य सिद्धान्त एव प्रमाणमिति न्यायप्रदर्शनार्थ, यद्येवं किं युक्त्युपवर्णतेन आगमादेव तत्सिद्धेः? इति चेत् न "जुत्तीए अविरुद्धो सयागमो" इत्यादिवचनाद्युक्तिभिरुपगृहीतस्यैवागमस्य|प्रामाण्याभ्युपगमात् , तथा च तदुपग्रहार्थ ता अपि दर्शिता इति न कश्चिद्विरोधः, तथा चान्यत्राप्युक्तम्-आगमश्चोपपचिश्च
सम्पूर्ण दृष्टिकारणम् ।। अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥१॥ तस्माद्युक्तिभिरुपपन्न आगम एवैषां सत्त्वे गत्यादिकार्य| सहकारित्वे च प्रमाणमिति गाथार्थः ॥८४॥ तदेवमजीवचतुष्कं व्याख्याय सम्प्रति पञ्चमं पुद्गलास्तिकायं व्याख्यातुमुपक्रमते-इह हि भिन्नानेकज्ञानमात्रात्मके जगति ग्राह्यग्राहकविभागविकलान्यपि बाह्यग्राझनीलाद्याकारायोगात्तद्विभागभांजि जीवज्ञानान्येव सन्ति, न तु बाह्यो नीलादिरर्थ इति, सङ्गिरन्ते साकारज्ञानवादिनो योगाचारा उपन्यस्संति च बाह्यार्थीपलापे प्रमाणं, तथा हि यद्येन सह नियमेनोपलभ्यते तत्ततो न भिद्यते यथैकसाच्चन्द्राद्वितीयश्चन्द्रः, ज्ञानेन सह नियमेनोपलभ्यते च नीलादिरिति,
*****
९२॥
***
For Private and Personal Use Only