SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 554544545454 मिति अवगाह्यमेव तस्माद्यद् युगपदखिलजीवादिद्रव्याणामवगाहक्रियायाः साधारणं निमित्तकारणं तदाकाशं, ननु क्षित्यादय एवावगाहदायका भविष्यन्ति किमाकाशेन ? इति चेत् न, तदभावेऽपि विहङ्गमत्रिदशादीनामाकाशेऽवगाहदर्शनात् , पवनो भविष्यति ? इति चेत् न, तस्यातिप्रबलस्य जीवादिद्रव्यावगाहप्रतिबन्धकत्वात् , दृश्यन्ते हि बलीयसा पवनेन हस्तिनोऽपि गच्छन्तः प्रतिवध्यमानाः किं पुनस्तृणादयः, न च प्रतिबन्धकस्यावगाहनिमित्तत्वं संभवति, नाप्यालोकतमःपुण्यपापादयस्तनिमित्तं भविष्यन्तीति वाच्यं, क्षित्यादीनामिव तेषामप्यव्यापकत्वेनावगाहकत्वात् , अतो नावगाहक्रियायां तेषां निमित्तत्वं, प्रतिबन्धककुड्याद्यभाव एवावगाहहेतुर्भविष्यति? इति चेत् न, केवलस्थाभावस्य सकलशक्तिविकलत्वेनावगाहाद्यसामथ्योत्, तस्मादवगाहसामर्थ्यमाकाशस्यैवावशिष्यते तथा च प्रयोगः-जीवादिद्रव्याणां युगपदवगाहः साधारणबाह्यनिमित्तापेक्षः युगपदवगाहत्वात् , एकसरोवर्तिमत्स्यादीनामवगाहवत् , तच्च क्षित्यादीनां निरासेन साधारणं निमित्तमाकाशमेवेति स्थितं, सम्प्रत्यादिपद| सङ्गहीतस्य कालस्य स्वरूपं किश्चिदुच्यते, तत्र कल्पन्ते अस्य पदार्थस्य जातस्यैतावन्तो दिवसा इत्यादिस्वरूपेण पदाथोंः, सङ्ख्यायन्तेऽनेनेति कालः, स च तात्विको जरत्पदृशाटिकापाटनदृष्टान्तसिद्धः, परमसूक्ष्मोऽतीतानागतकोटिविनिर्मुक्तो वर्तमानैकसमयरूपः, समयस्य च निर्विभागत्वेन प्रदेशासम्भवादस्वास्तिकायत्वाभावः, तथा चोक्तं-कालं विनाऽस्ति काया इति, नन्वतीतानागतरूपतयाऽपि कालस्य श्रवणात्कथं वर्तमानकसमयरूपता ? इति चेत् सत्यं, तस्यातीतानागतखयो शानुत्पादाभ्यामसत्त्वेनातात्त्विकत्वात् , कथं तर्हि तत्रातीतादिव्यवहारः ? इति चेत् न, विनष्टोत्पत्स्यमानपदार्थोपाधिवशेन कालेऽपि तव्यावहारोपपत्तेः, तथा हि नष्टो घट इत्यादौ घटखरूपनिवृत्तिरेवातीतत्वं तदुपहितः कालोऽप्यतीतः, तथा भविष्यति घट इत्यादी घटस्य For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy