________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ACCASIRSANSAR
सोविय संकोयविकाससंगओ देहवावगो नियमा। भोगाययणेणवि तस्स हंदि जोगो समो इहरा॥ ८३ ॥ ___ व्याख्या-स इति तच्छब्देन प्रकृतत्वादात्मा परामृश्यते, अपि चेति पुनरर्थे तेन स पुनरात्मा, अल्पदेहे असङ्ख्येयप्रदेशात्मकस्याप्यात्मनः खप्रदेशैस्तावद्देशावगाहित्वं सङ्कोचा, महति देहे बहुदेशावगाहित्वं विकाशस्ततो द्वन्द्वः ताभ्यां सङ्गतः-समन्वित स्तानिजवीर्यविशेषात्सङ्कोचविकाशपरिणामपरिणत इत्यर्थः, तेन तरुणदेहे वालदेहवर्त्तिनो लघुपरिमाणस्यात्मनो निवृत्त्या | महापरिमाणस्यात्मान्तरस्योत्पादो न शङ्कनीयः, सर्वास्ववस्थाखेकपरिमाणस्यैवात्मनः सङ्कोचविकाशवत्तया परिणामात् , 'देहव्यापकः' स्वकर्मोपढौकितस्वशरीरमात्राधिष्ठायकः, तदवच्छेदेनैवात्मनश्चैतन्योत्पाददर्शनात् सुखदुःखोपभोगाच 'नियमाद्'-अवश्यम्भावेन, अनेन च विशेषणद्वयन नैयायिकाद्यभिमतमेकान्तनित्यत्वं सर्वदा सर्वगतत्वमात्मनः प्रतिक्षिपति, उक्तन्यायेन तस्य नित्यानित्यत्वदेहव्यापकत्वयोः प्रसाधनात् , ननु सर्वगत्वेऽप्यात्मनो देहावच्छेदेनैव भोगो भविष्यति भोगायतनत्वेन तस्य वकर्मभिरुपनयनात् ? इति, अत आह 'भोगायतनं' मोक्तुरात्मनो भोगः-सुखदुःखानुभवः तस्य आयतनम्-अधिकरणं देहमधिकरणं विहायान्यत्रात्मनः सुखदुःखानुभवो नास्तीति भोगायतनं देहमुच्यते, ततश्च भोगायतनेन' देहेन परकीयेणेति शेषः 'अपिः समुच्चये तेन न केवलं स्वकीयेन भोगायतनेन किं तर्हि ? परकीयेणापीत्यपिशब्दार्थः, तस्य अधिकृतात्मनः, हन्दीति | प्रतिवाद्यामन्त्रणे 'योगः' सम्बन्धः समः' तुल्यः प्राप्नोतीति शेषः, तथा च सति खदेह इव परकीयदेहेऽपि अधिकृतात्मनो भोगप्रसङ्गः, 'इतरथा' अन्यथा, आत्मनः सर्वगतत्वाभ्युपगम इत्यर्थः, एतदुक्तं भवति-अधिकृतात्मनो हि स्वकीयेनापि देहेन सह संयोग एव सम्बन्धः, न तु असत्पक्ष इव कथश्चित्तादात्म्यं, स चात्मनः सर्वगतत्वेन परकीयदेहेनापि सहास्ति, ततश्चाधि
For Private and Personal Use Only