________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
SAGAUCAECEASEASON
आत्मनः प्रदीपवदाश्रयानुविधानात्सङ्कोचविकाशधर्मकत्वेनैकत्वात्स्मरणाद्युपपत्तेः, यथा हि . प्रदीपप्रभाः सङ्कीर्ण विस्तीर्ण | बृहद्भुत्तिः | वाऽपवरकादिदेशं प्राप्य सङ्कुचन्ति विकशन्ति वा, तथाऽऽत्मनोऽपि स्वकर्मोपार्जितं लघुदेहमशितपीतादिना विवर्द्धमानं च बृहद्देहमासाद्य वीर्यान्तराय-क्षयोपशमजन्यवीर्यातिशयात्प्रदेशाः सङ्कुचन्ति विकशन्ति च, तथा च प्रदेशविकाशकृतस्तरुणदेहे आत्मनो महत्त्वप्रतिभासो न तु बालदेहवर्तिलघुपरिमाणात्मविनाशेन महापरिमाणात्मान्तरोत्पत्त्या, एवं चोभयोरप्यवस्थयोः सङ्कोचविकाशपरिणामेनात्मनः कथञ्चिदेकत्वाद्वाल्यावस्थानुभूतार्थस्य स्मरणप्रतिसन्धानादयस्तारुण्यावस्थायामप्युपपद्यन्त |एव, ननु प्रदीपदृष्टान्तेनात्मनः सङ्कोचविकाशधर्मत्वाभ्युपगमे तद्वदेवानित्यत्वापत्तिः, तथा हि आत्मा अनित्यः सङ्कोचवि| काशवत्वात्प्रदीपवदिति चेत्, न तैजसपरमाणुप्रभयाऽनैकान्तिकत्वात् , सापि हि पार्थिवादिपरमाणुव्यवधानाव्यवधानाभ्यां सङ्कोचविकाशवती भवति न खनित्या, न च तैजसपरमाणौ नास्त्येव प्रभेति वाच्यं, कार्ये तदनुत्पादप्रसङ्गात् कारणप्रभापूर्व-18 कलात्कार्ये तदुत्पत्तेः, भवतु वा सङ्कोचविकाशवत्वं प्रदीपात्मनोस्तथापि सतोरकारणवत्वेनात्मनो नित्यखं भविष्यति, प्रदीपस्य | तु कारणवत्त्वादनित्यखमिति को दोषः । तथाऽनादिश्चायं, कथम् ? इति चेत् उच्यते-हर्षादिकारणरूपादिविषयग्रहणासमर्थेप्वपीन्द्रियेषु बालस्य तदहर्जातस्यापि मितरुदितिभ्यां स्तन्यादिलाभालाभकृतौ हर्षशोकावनुमाय ताभ्यां च पूर्वजन्मसु पौनःपुन्यानुभूतस्तन्यपानस्मृत्यनुबन्धानुमानेनात्मनोऽनादित्वानुमानात् , तथा चाक्षपादः पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभय-हा शोकसम्प्रतिपत्तेरिति, तदेवं देहव्यापकश्चेतनो नित्यानित्यः स्वकृतकर्मफलभोगी देहाद्भिन्नाभिन्नो गतिमान् प्रदेशसङ्कोचविकाशधाऽनादिश्च व्यवस्थित आत्मेति, ।। ८२ ॥ एतदेव च सूत्रकारः शिष्यानुग्रहाय सोपेण दर्शयन्नाह
॥८९
For Private and Personal Use Only