SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandir SALMALAMAURUS तथाहि देहप्राधान्यविवक्षयेह देहकृताहिंसाहिंसादिपुण्यपापफलस्य खर्गनरकादेर्जन्मान्तरे जीवनानुभवात् , नतु तेनैव देहेनानुभवः स्वर्गादौ तस्य देहस्थाभावात् , एवं जीवप्राधान्यात् शुभाशुभाध्यवसायाभ्यां जीवकृतपुण्यपापफलस्य खर्गनरकादौ सुखदुःखस्य देहेनानुभवात् न तु केवलेनैव जीवनानुभवः, देहं विना जीवस्य सुखदुःखानुपपत्तेः, किश्च जीवदेहयोर्भेदाभेद एव चन्दनालेपवासीतक्षणादिनामुत्पादिदेहोपकारापकाराभ्यां तत्कर्तुः पुण्यपापसम्भवः, इतरथाऽत्यन्तभेदे तयोरन्तवर्तिनि चटके घटमात्रविभूषामनामनाभ्यामिव पुण्यपापे न स्याताम्, एकान्ताभेदे च जीवदेहयोदेहापायेऽवश्यं जीवस्याप्यपाय इति |परलोकाभावेन कर्मबन्धादेरपि अपार्थक्यं स्यात् , तथा च सर्वमालूनं विशीर्ण भवेदिति तस्मात् "जीवज्झवसायाओ जीवत्ता पुग्गला परिणमंति । पुग्गलकम्मनिमित्तं जीवो वि तहेव परिणमइ ॥१॥" इत्यागमसिद्धन्यायेन क्षीरनीरवदन्योन्यानुगमाद् | भेदाभेद एव तयोः सर्वमेतदुपपद्यत इति देहाद्भिन्नाभिन्न एवात्मेति, नन्वात्मनो देहमात्रव्यापकत्वे निष्क्रियत्वेन देशान्तरप्राप्तर| भावात् , कथं तत्र तत्र देशे सुरलोकादौ च सुखदुःखोपभोगः इति चेत् न, गतिमत्वेनात्मनो देहद्वारा देशान्तरादिस्थितभोग्यपदार्थजन्यानामपि सुखदुःखानामुपभोगसम्भवात् , यदि पुनरात्मनो गतिमत्त्वं नाभ्युपगम्यते, तदा तदधिष्ठितस्यापि देहस्यानन्ततापुद्गलनिष्पन्नतया गुरुत्वाद् घटादेरिव स्वयं देशान्तरप्राप्तिनं भवेत् , तस्माद्गतिमान् आत्मा द्रव्यान्तरगतिहेतुत्वात् वायुवदिति, ननु देहव्यापकत्वखीकारे बालदेहे आत्मा लघुपरिमाणः, तरुणदेहे च महापरिमाणः प्रामोति, लघुपरिमाणनिवृत्या च महापरिमाणोत्पत्तिलघुपरिमाणनिवृत्तिश्च तदाश्रयस्य बालदेहवर्तिन आत्मनो विनाशादेव संभवति, तथा च तरुणमहापरिमाणात्मान्तरोत्पादादालावस्थानुभूतस्यार्थस्य स्मरणप्रतिसन्धानानुपपत्तिरिति चेत्, तन्न, उभयोरप्यवस्थयोरसक्येयप्रदेशात्मकस्य सत For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy