________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी|
॥८८॥
सुखादिकारणकुशलायनुष्ठानावसराभावात्स एव प्रसङ्गः, उभयोरपि पक्षयोः संसाराभावप्रसङ्गव, जीवस्य मनुष्यादिपर्यायपरित्यागेन | देवादिपर्यायप्राप्तिर्हि संसारः, एकान्तनित्यत्वे तु तस्यैकखभावत्वात् पर्यायान्तरप्राप्तेरसम्भवात् कः संसरेत् ? तथाऽस्मिन् पक्षे कर्ता
चेदात्मा तदा सर्वदापि कत्तैव, मोक्ता चेत् शश्वद्भोक्तव स्यात्, तथा च का शुभाशुभं कर्मेह जन्मनि कृत्वा जन्मान्तरे तत्फलं भुञ्जीत, येन कर्तृत्वभोक्तृत्वे एकस्य स्यातां, तथात्वे चैकखभावत्वहानेः, एकान्तानित्यत्वेऽपि निरन्वयनश्वरत्वात् कः संसरेत् ? नित्यानित्यत्वे त्वात्मनोऽन्वयित्वादनेकखभावतया कर्तृत्वभोक्तृत्वे नारकादिपर्यायाश्चोपपद्यन्ते, यथा हि कनकस्य कनकत्वेनावस्थितस्यैव कटकादयः पर्याया उत्पद्यन्ते व्ययन्ते च, एवं जीवद्रव्यस्यापि जीवद्रव्यतयाऽवस्थितस्य कर्तृत्वभोक्तृत्वादिरूपा नारकादिरूपाश्च पर्याया उदयन्ते व्ययन्ते च, तथा च जीवतया नित्यत्वं तस्य सर्वपर्यायेष्वनुगमात् , पर्यायरूपतया त्वनित्यत्वमपि, यथा हि युवकृतकर्मणश्चौर्यादिकस्य फलं बन्धनादिकं कश्चिद्धः सन् वेदयते, स च यूनः कथश्चिदन्योऽवस्थाभेदेनावस्थावतोऽपि कथश्चिनेदात्, न च सर्वथाऽन्य एव येन मया यूना सता चौर्य कृतं स एवाहं तत्फलमिदानीं प्राप्तवानित्यनन्यत्वेनापि योरप्यवस्थयोरात्मनःप्रतिसन्धानात्, एवं वृद्धवदेव मनुष्यपर्यायकृतस्य शुभाशुभकर्मणः फलं देवादिपर्यायप्राप्तः स एव जीवोऽनुभवति, मनुष्यपर्यायपरिहारेण देवादिपर्यायतया तस्यैव परिणामात् , पर्यायतया भेदेऽपि जीवद्रव्यतयाऽभेदादिति है। | नित्यानित्यपक्षे कथश्चिदेकस्यैव कर्तृत्वं स्वकृतकर्मभोक्तृत्वं च घटत इति नित्यानित्य आत्मेति, तथा देहाद्भिन्नाभिन्नश्च, मूत्तेत्वामूर्तत्वाभ्यां देहजीवयोर्भेदः, देहस्य पट्टतूलादिस्पर्शे च जीवेन तत्संवेदनादभेदः, अन्यथा देहस्याचेतनत्वेन जीवस्य चाम-18 तत्वेन स्पर्शानुभवो न स्यात् , तथा देहजीवाभ्यां कृतयोः पुण्यपापयोरन्योन्यं जीवदेहाभ्यां फलोपभोगादपि तयोर्भेदाभेदः,
For Private and Personal Use Only