SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ALSOCUMSAMACHAR परकीयादृष्टानां देवदत्तात्मनाऽकृतखान तज्जन्यसुखदुःखानां देवदत्तदेहे भोगः प्रसज्यत इति चेत्, न, कुशलाकुशलकर्मलक्षणमदृष्टं कुर्वतो देवदत्तात्मनो ज्ञानचिकीर्षाप्रयत्नसमवायो हि भवन्मते कर्तृत्वं, तस्य चैकखात्स्वादृष्टकरण इव परकीयादृष्टकरणेऽप्यविशेष इति परकीयादृष्टानामपि देवदत्तात्मकृतखात्तदवस्थ एवातिप्रसङ्गः, तस्मात्स्वदेह एव सुखदुःखोपभोगात्सर्वेषां खदेहव्यापक एवात्मा न सर्वगतस्ततः सिद्धमात्माऽविभुः नियतदेशावच्छेदेनोपलभ्यमानकार्यखान्मनोवदिति, न च तथालेनोपलभ्यमानशब्दलक्षणकार्येणाकाशेन व्यभिचार, शब्दस्य द्रव्यखोपगमेनाकाशगुणखासिद्धेः, यथा चैतत्तथाऽग्रे निवेदयिष्यते। विस्तरार्थिना खभयदेवग्रन्थो निरूपणीयः, चेतनश्वायमवाधितखसंवेदनेन तत्र चैतन्योपलंभात्, चैतन्यं चात्मनो नैकान्तेन भिन्न तथात्वे चैत्रचैतन्येनापि मैत्रादीनामपि वस्तुपरिच्छेदप्रसङ्गात् , आत्मनोऽत्यन्तभेदेऽपि चैत्रात्मन्येव तस्य समवायात् चैत्रस्यैव तेन वस्तुपरिच्छेदो न मैत्रादीनामपीतिचेत् न, चैतन्यस्यात्मसम्बन्धस्तावत्समवायाद्भवता प्रसाधितः, आत्मचैतन्ययोः समवाय | इत्यत्र तु समवायस्यात्मचैतन्याभ्यां सह सम्बन्धः कसात्सिध्यति ? समवायान्तराचेत् तदाऽनवस्थाप्रसङ्गः, समवायबहुत्वप्रसङ्गे नापसिद्धान्तापातश्च, अथानवस्थादिभिया समवायान्तरमन्तरेणापि समवायः समवायिभ्यामात्मचैतन्याभ्यां स्वत एव संबध्यते, | तदा चैतन्यमपि समवायं विनाऽप्यात्मना सह स्वतः संभत्स्यते किं समवायकल्पनया, तसाचैतन्यं नात्मनोऽत्यन्तं भिन्न, नाप्ये कान्तेनाभिन्नम् , अहं छिनमीत्यत्र छिदाया इवाहं जानामीत्यादौ ज्ञानक्रियायाश्चाऽहं शब्दवाच्यादात्मनो भेदप्रतिभासात् , द्रव्य| कालाद्यपेक्षया बाह्याध्यात्मिकज्ञानानां कादाचित्कखदर्शनाच्च नित्यानित्यश्चासौ, एकान्तनित्यत्वे ह्यविचलितैकखभावखेन सुखदुःखादिरूपविलक्षणपरिणामान्तराभावात्स्वकृतधर्माधर्मफलोपभोगाभावप्रसङ्गः, एकान्तानित्यत्वेऽपि जन्मानन्तरमेव विनाशेन CANARAAGRAA For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy