________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः ५ लि.
॥८७॥
155AMASOORDS
व्याख्या-इह जन्तुशब्देन कथश्चित्तदभेदाज्जन्त्वधिष्ठानं शरीरमुच्यते, तेन प्रतिजन्तुभेदं,प्रतिशरीरनानात्वम् अनुस्खारलोपःप्राकतखात, 'भिन्नः' पृथग 'जीव:' आत्मा, यावन्ति जीवच्छरीराणि तावन्तस्तदधिष्ठातारो जीवाः पृथक् सन्तीत्यर्थः, विपक्षेदोषमाह|'इतरथा तु' अन्यथा पुनरात्मैकवाङ्गीकारे इत्यर्थः 'सर्वजीवानां सकलसंसारिसत्त्वानां, संसारो देवादिगतिषु पौनःपुन्येन 'संसरणं' पर्यटनम् 'आजवं' जवीभाव इति यावत् , मोक्षो वा निःश्रेयसं वा संसारप्रध्वंस इत्यर्थः, प्रसज्यत इति शेषः, उपलक्षणं चैतत्तेन सुखदुःखं वेत्याद्यपि द्रष्टव्यम्, अयमर्थः केचिजीवाः संसारिणः केचिन्मुक्ताः केचित्सुखिनः केचिदुःखिन इत्यादिव्यवस्था तावसर्ववादिसिद्धास्ति, ऐकात्म्ये त्वेकस्य कस्यचिन्मुक्तौ सर्वेऽपि युगपन्मुच्येरन् तदभिन्नत्वात्तेषां न कश्चित्संसरेत, तथा च जीवशून्यो | जीवलोक: स्यात् , न चैतावन्तं कालं न कश्चिन्मुक्त इति वाच्यं, तथा सति कदाचिदपि कोऽपि न मुच्येत, न तावता कालेन
यन्न भूतं तदिदानी भविष्यतीति सङ्गच्छते, उपलभ्यते च व्यवस्थया प्राणिनां संसारमोक्षौ, अतो विरोधतः सर्वेषां युगपत्संसा| रप्रसङ्गेन मोक्षप्राप्त्या वा विरोधात् ऐकात्म्यपक्षस्य प्रमाणवाधात् 'कथं' केन प्रकारेण 'नु' इति आक्षेपे 'एकत्वम् ऐकात्म्यवादो घटते न कथश्चिद् उक्तनीत्या तन्निरासात्, तस्मात्प्रतिशरीरं भिन्ना आत्मनो व्यवस्थावत्वात् नानागृहान्ततिप्रदीपवदिति स्थितमिति | गाथार्थः ॥८२॥ स चायमात्मा स्वदेहव्यापको न तु सर्वगतः, स्वदेहावच्छेदेनैव सुखदुःखोपभोगात्, सर्वगतले हि सर्वत्र सुखदु:| खोपभोगप्रसङ्गः, अदृष्टवत आत्मनः सर्वत्राभावात् , सर्वगतत्वेऽपि खादृष्टाकृष्ट इव देहे तस्य तदुपभोग इति चेत्, अथादृष्टस्य स्वकीयत्वं कुतः सिद्धं ? स्वात्मनि तस्य समवायादिति चेत् न, समवायस्यैकत्वेन सर्वगतत्वेन च परकीयादृष्टानामपि खात्मनि समवायात् , परकीयादृष्टजन्यानामपि सुख-दुखानां स्वदेहे भोगप्रसङ्गः, अथ येनात्मना यददृष्टं क्रियते तत्तस्य स्वकीयं, ततश्च
ACCUSAUGACA
For Private and Personal Use Only