________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandit
पंचलिंगी
॥८६॥
HAMALAMIC
धीरस्स पस्स धीरत्तं सबधम्माणुवत्तिणो । चिच्चा अहम्मं धम्मिढे देवेसु उववज्जइ ॥२॥"त्ति, इत्यादिना सुखदुःखयोः पुण्य- बृहद्वृत्ति पापप्रभवत्वस्य प्रपश्चनात् , तत्तसात् कारणाद्देवसुता बुद्धपुत्रा इति सौगतानामाभिमुख्यकरणं तेषामिह वादिखात , 'ज्ञानं भवद-18| ५ लि | भिमतालयज्ञानप्रवृत्तिज्ञानलक्षणं चैतन्यम् , अत्र चैवकारोवधारणाओं द्रष्टव्यः, तेन ज्ञानमेव सुखदुःखसंवेदन-सुखदुःखरूपो| भोगो न तु ज्ञानातिरिक्तः सुखदुःखोपभोक्ताऽन्यः कश्चित् इतिरत्रगम्यस्तेन इति 'नास्ति' न विद्यते आलयज्ञानप्रवृत्तिज्ञानाभ्यां पुण्यपापलक्षणासाधारणकारणप्रभवखेन सुखदुःखयोर्भेदप्रसाधनात्, एवमप्यभेदे जगति भेदव्यवहारोच्छेदप्रसङ्गात् , सुखदुःखे ज्ञानाद्भिन्ने तत्कारणभित्रकारणप्रभवनात् घटात्पटवदि ति, तन्न ज्ञानमेव स्वर्गनरकादौ सुखदुःखरूपं जायत इत्यास्थेयं, किन्तु तदतिरिक्तः सुखदुःखभोक्ता जीवः परलोकानुष्ठाननिर्वाहाय श्रद्धेय इति गाथार्थः ॥८१ ।। तदेवमात्मनि व्यवस्थिते आत्माद्वैतवादी पूर्वपक्षयति, नन्वेक एवात्मा परमब्रह्मरूपो व्यापकः सकलजगच्छरीराण्यभिव्याप्य शश्वद्वतते, न तु प्रतिशरीरं पृथगा|त्मानः सन्तीति ? तदसमीचीनम् , एकस्यैवात्मनः सकलशरीराधिष्ठायकले निखिलशरीरभाविनां सुखदुःखादीनामेकमिन्नेव देवदत्तशरीरेऽनुभवप्रसङ्गात् , इतरथा तस्स निखिलशरीरव्यापकलं नोपपद्येत, यथा च बाल्यकौमाराद्यवस्थावात्मन एकत्वाद्वाल्याउनुभूतं यौवनाद्यवस्थायां सर्यते, तथैकेनानुभूतं सर्वैः सर्येत सर्वशरीरेष्वात्मनोऽभेदात् , तथैकात्म्ये सुखदुःखनिमित्तयोर्धा धर्मयोः सर्वसाधारण्येन कश्चित्सुखी कश्चिदुःखीत्यपि प्रतिनियमो न स्यात् , सर्वे सुखिनो दुःखिनो वा भवेयुः, शरीरभेदेनैकस्या- ॥८६॥ प्यात्मनः कश्चित्सुखीत्यादिप्रतिनियमो भविष्यतीति चेत् , भवतु किं नाम योऽहं चैत्रः सुखी अभूवं सोऽहं मैत्रः सम्प्रति दुःखी जात इति प्रतिसन्धानं स्यात्, ननु यथा स्वप्राग्भवानुभूतसुखादीनां शरीरभेदादिह जन्मनि प्रतिसन्धानं न भवति, तथा ऐका
For Private and Personal Use Only