________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
45454545455.
६ प्रवृत्तिनिवृत्ती ज्ञानस्य फलं, नवनवखगोचरतृष्णातद्वैमुख्यजननं, नयनादिप्रसादवैवर्णाद्युत्पादनं च, सुखदुःखयोरिति फल| भेदोऽपि, नापि द्वितीयः विकल्पः, तत्रापि हेतुस्वरूपफलभेदस्योक्तन्यायेन सम्भवात् , आलयज्ञानस्य हेतुः समनन्तरप्रत्यय| संज्ञि पूर्वज्ञानं, सुखदुःखयोस्विष्टानिष्टविषयसनिकषादिकं, स्वरूपं तु ज्ञानस्य खान्यनिभोसकसमहं प्रत्ययविषयवं च, सुखदुःख| योस्तु प्रागुक्तमेव, फलं तु तस्योत्तरज्ञानप्रवाहजननं प्रवृत्तिज्ञानोत्पादनं च, सुखदुःखयोस्तूक्तमेव, किं चालयज्ञानस सुखदुःख | रूपत्वेऽहं सुखमहं दुःखमिति प्रत्ययः स्यात्, न त्वहं सुखी अहं दुःखीति, तस्माज्ज्ञानात्सुखदुः-खयोः कथञ्चिद्भेद एवेति, | तदेवं भेदसिद्धावपि बालाङ्गनादिप्रतीताऽसाधारणकारणप्रदर्शनेन ज्ञानात्सुखदुःखयोमेंदं प्रतिपादयन् सूत्रकारः प्रवृत्तिज्ञानादिविशेषाविवक्षया ज्ञानमाश्रित्य तदभेदं निरसितुमाहइह पुण्णपावपभवा सुहदुहसंवित्ति जंतुणो जम्हा । ता देवसुया णाणं सुहदुहसंवेयणं नत्थि ॥ ८१॥ ___ व्याख्या-'इह' असिन् लोके प्रवचनेन च, कुशलानुष्ठानसाध्या कर्मप्रकृतिः पुण्यम् , अकुशलानुष्ठानसाध्या तु पापं, ततो द्वन्द्वः, 'तत्प्रभवा' पुण्यपापलक्षणाऽसाधारणकारणनिष्पाद्या, न तु ज्ञानवन्मनस्कारादिमात्रसाध्या, सद्वेदनीयोदयादात्मनः प्रसादपरिणामः सुखम् , असद्वेदनीयोदयादात्मनः सन्तापपरिणामो दुःखं, तयोः संवित्तिरनुभवो भोग इति यावत् , अत्र विसर्गलोपः प्राकृतत्वात् 'जन्तोः' आत्मनः, अनेन च सुखदुःखयोरधिकरणं ज्ञानातिरिक्तं दर्शयति, यसाचतो हेतोः, बालादिलोकस्यापि | पुण्यपापहेतुकत्वं सुखदुःखयोः प्रतीतमेव, बालानामपि धर्म कुरु वयस्य ? येन सुखी भवसि, पापं मा कार्येन दुःखी भवसी| त्यादेवेचनोपन्यासस्य श्रवणात्, आगमे तु-बालस्स पस्स वालतं अधम्म पडिवजिया। चिच्चा धम्मं अहम्मिट्टे नरएसुववज्जए॥१॥
For Private and Personal Use Only