________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
| बृहद्वृत्ति
५ लि.
॥८५॥
| निलतेजोबीजलक्षण एव पुनः समर्थतरादिक्रमेणोत्पद्यते, यावदत्यन्तसमर्थान्त्यपुञ्जोत्पादः, तत्र च प्रथमपुञ्जगतं बीजमुत्तरपुञ्जगतं बीजं प्रत्युपादानकारणं, क्षित्यादीनि तु प्रथमपुञ्जगतानि निमित्तकारणम् , एवं क्षित्यादीन्यपि प्रथमपुञ्जगतानि उत्तरपुञ्जगतक्षित्यादीनि प्रति यथा स्वमुपादानकारणानि बीजं तु प्रथमपुञ्जगतं निमित्तकारणम् , एवं क्षित्यादिष्वपि परस्परं निमित्तकारणभावो बौद्धमते बोद्धव्य इति उपादानसहकारिकारणव्यवस्था, इह तु सन्तानोऽचेतनो न किञ्चिदपि प्रति भवतोपादानकारणमिष्यते, येन जन्मान्तरभाविभोक्तचेतनं प्रति सहकारितां यायात्, उपादानव्याप्तवानिमित्तताया इति भवत्सिद्धान्तात् , तसादेकज्ञानक्षणवत्सन्तानस्यापि न कर्तृखभोक्तृखे संभवत इति तदतिरिक्तात्माङ्गीकार एव सर्वमुपपद्यत इति गाथार्थः ॥८॥ ननु ज्ञानमेव शुभा-1 नुष्ठानजनितवासनातिशयसहकृतं कालान्तरे खगेनरकादौ सम्वनितादि विषकण्टकाद्यभिप्रेतानभिप्रेतविषयसान्निध्ये सुखरूपं दुःखरूपं च प्रादुरस्ति, तथा च किं तदतिरिक्तसुखदुःखलक्षणफलभोक्तृकल्पनयेति चेत् तन्त्र, किं प्रवृत्तिज्ञानसन्तानगतज्ञानमधिकृत्य ज्ञानस्य सुखदुःखरूपता साध्यते भवता, आहोस्वित् आलयसन्तानगतज्ञानमधिकृत्य नाधः, हेतुखरूपफलभेदेन ज्ञानात्सुखदुःखयोर्मेदसिद्धेः, न खलु वनितारूपादिज्ञानोत्पत्ती या सामग्री वनितादिलक्षणा सैव सुखदुःखयोरपि, किन्तु रागादिवासनाविशेषोऽपि, अन्यथा रागिण इव मुमुक्षोरपि वरवर्णिनीपिशाच्यो रूपादिज्ञानात्सुखदुःखोत्पादप्रसङ्गात् , निदाघेऽपि शिशिर इव घुमणस्पर्शज्ञानादाहादापत्तेः, ननु तथाऽपि रूपालोकमनस्कारादिसामग्रीजन्यखात् ज्ञानसुखदुःखानामभेदोऽस्तु इति चेत् । न, सामग्रीसामान्याविशेषेऽप्यवान्तरदेशकालभावादिसामग्रीविशेषा दोपपत्तेः, एवं च हेतुभेदात्कथमभेदो ज्ञानात्सुखदुःखयोः, तथा खपरप्रकाशकं ज्ञानम् , अनुकूलप्रतिकूलवेदनीये च सुखदुःखे इति खरूपभेदोऽपि तेषां, हिताहितप्राप्तिपरिहारार्थे च|
For Private and Personal Use Only