SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SACROCOCCASIOCHACHAR व्याख्या-सन्तानस्तु 'तुः पुनरर्थे 'सन्तान:' कार्यकारणभावक्रमेण निरन्तरोपजायमानो ज्ञानप्रवाहः, स पुनरवस्तु विचारासहलादविचारितरमणीयः, तथा झधिकृतसन्तानः सन्तानिभ्यो ज्ञानक्षणेभ्यो व्यतिरिक्तोऽव्यतिरिक्तो वा स्यात्, यद्यव्यतिरिक्तस्तदा सन्तानिनो ज्ञानक्षणा एव सन्तानः, तथा च विज्ञानक्षणपक्षोक्त एव दोषः, अथ व्यतिरिक्तस्तदापि किं वस्तु सन् तदितरो |वा, यदापि वस्तु सन् तदापि किं चेतनोऽचेतनो वा, यदि तावत्सन्तानिभ्यो व्यतिरिक्तो वस्तु सन् चेतन इति पक्षस्तदा नामान्तरेणात्माऽभ्युपेतः स्यात् , कथंचिज्ज्ञानव्यतिरिक्तस्य वस्तुसतश्चेतनस्यैवासाभिरप्यात्मतयोपगमात्, अथ व्यतिरिक्तो वस्तुसनचेतन इति पक्षस्तत्र सूत्रकार एवाग्रिमपादेनोत्तरं वक्ष्यति, अथ व्यतिरिक्तोऽवस्तुसन्निति पक्षस्तदा अवस्तुसतः सन्तानस्य वन्ध्यासुतज्ञानसन्तानायमानदेन कर्तृखभोक्तखानुपपत्तिः, तदिदमुक्तं 'संताणो उ अवत्थूति ॥ साम्प्रतं यदुक्तं मूत्रकार एवोत्तरं वक्ष्यतीति तदाह-अचेतनाच सन्तानाद्वस्तुसतोऽपि सकाशात् 'च' समुच्चये 'चेतनं जन्मान्तरभाविज्ञानं, | भोक्तृ उपजायत इति शेषः, अयमर्थः-इह जन्मभाविनोऽचेतनात् ज्ञानसन्तानात्कर्मकर्तुः प्रेत्यभावी ज्ञानसन्तानः फलोपभोकोत्पद्यते, इह च कर्तृभोक्तृसन्तानस्यैकवेऽपि जन्मद्वयभाविकर्तृवभोत्तृखोपाधिद्वयापेक्षया पञ्चम्या भेद उक्तस्ततश्चाचेतनाचेतनं जायत इति 'अयुक्तम्' अनुपपन्न, तदाहि घटादपि भोक्तृचेतनोत्पादप्रसङ्गात् , ननु मा भूदचेतनस्य सन्तानस्य वस्तुसतोऽपि जन्मान्तरभाविभोत्तृज्ञानं प्रत्युपादानतया हेतुखं सहकारितया तु भविष्यतीति चेत् तत्राह-'युज्यते' उपपद्यते 'सहकारिख' निमित्तकारणलं 'नूनम्' अवश्यम्भावेन उपादानरूपखे' उपादानकारणखे सति किश्चित्कार्य प्रत्युपादानकारणमेव सन् भावकार्यान्तरं प्रति निमित्तकारणं भवति, तथा हि क्षितिजलानिलतेजोबीजलक्षणात् पुञ्जात् प्राग्भाविनः समर्थादुत्तरोत्तरः क्षितिजला For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy