SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥८४॥ AAAAAAAMKAL |भोक्ता' न फलानुभावुकः, कर्मकर्तुर्ज्ञानक्षणस्य विनाशेन फलभोगक्षणेऽन्यस्योत्पत्तेः 'इतिः' हेतौ अस्माद्धेतोरकृतागमकृतनाशप्रसङ्गः, किं वास्मिन् पक्षे शुभाशुभकर्मप्रवृत्तिनिवृत्त्योरप्यभावः प्राप्नोति, सर्वो हि प्रेक्षावान् शुभाशुभकर्मणोरागामिस्वर्गनरकादिफलाभिसन्धानेन शुभकर्मणि दानादिके प्रवर्तते, अशुभकर्मणश्च हिंसादेर्निवर्त्तते, यदा त्वेवं निश्चितम्-अन्यः कर्मकर्ता अन्यश्च तत्कलभोक्तेति, तदा क इव शुभकर्मणि प्रवर्तेत ? तत्प्रवृत्तावपि तत्फलस्य खर्गादेरन्येनोपमोगात् , स्वसुखसम्पत्तेरेव च सर्वैरिष्टखात् , नाप्यशुभकर्मणः कश्चिन्निवर्तेत, तदनिवृत्तावपि तत्फलस्य नरकादेरन्यप्राप्तेः, तथा चासौ निःशवं हिंसादौ प्रयतेत, तसादत्र पक्षे एकस्यैव कर्तृत्त्वभोक्तृवाभावाजगनिरीहं जायतेति, अभ्युपगम्य चेदमुक्तं वस्तुतस्तु प्रतिक्षणं खोत्पादव्ययाभ्यामाकुलीकृतानां ज्ञानक्षणानां शुभाशुभकर्मकरणतत्फलोपभोगकालासम्भव एव, तस्मात्क्षणिकज्ञानपक्षे परलोकानुष्ठानं कथमपि न सङ्गच्छत इति गाथार्थः ॥ ७९ ॥ ननु क्षणिकज्ञानपक्षे एकस्यैव ज्ञानक्षणस्य कर्तृवभोक्तवे मा भूतां तत्सन्तानस्य तु भविष्यतः तस्य स्थिरैकरूपत्वात् , यथा हि लाक्षारसावसेकः कर्पासबीजे निषिक्तस्तजनितातिशयाधानक्रमेण कालान्तरे कुसुमेषु रक्ततामुन्मीलयति, तथा यस्मिन्नेव ज्ञानसन्ताने कुशलाकुशलकर्मयोगः सञ्जातः, तस्मिन्नेव विशिष्ट[विशिष्टतरोत्तरोत्तरक्षणोत्पादक्रमेण प्रेत्य सुखदुःखफलोपभोगोपि सम्पत्स्यते यदुक्तम्-“यस्मिन्नेव हि सन्ताने आहिता कम्मेवासना । फलं तत्रैव संधत्ते कप्पासे रक्तता यथा ॥१॥" तथा चैक एव ज्ञानसन्तानः कर्ता भोक्ता च घटिष्यत इत्याशङ्कयाह संताणो उ अवत्थू अचेअणाओ य चेयणमजुत्तं । जुज्जइ सहकारित्तं नूणमुवादाणरूवसो ॥ ८॥ ॥८४॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy