________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गमात् , सर्वज्ञेन च प्राग्भवीयखज्ञानानामप्रतिसन्धानापत्तेः, किश्च कार्यकारणभावमात्रस्य स्मृतिहेतुत्वे प्रत्यक्षोपलभ्यमानेऽप्यर्थे स्मृतिरापद्यतेति, तदेवमेवमादौ सत्यपि दूषणे सूत्रकारो बालानामपि झटितिसुखप्रतीत्याधायकममिन् पक्षे दूषणान्तरमाह
अकयागमकयनासो विण्णाणखणम्मि भावओ सन्ते । उदयाणंतरनासे जेण कयं सो न भुत्त त्ति ॥७९॥३ व्याख्या-येन ज्ञानेन न कृतं-न विहितं ब्रह्मचर्यदानादिकं स्वर्गादिहेतुः, प्राणवधचौर्यादिकं च नरकादिहेतुः कर्म तस्य ज्ञानक्षणस्य आगमः, शुभकर्मफलस्य खर्गादेः, अशुभकर्मफलस्य च नरकादेः प्राप्ति-रुपभोग इति यावत् , येन च ज्ञानक्षणेन कृतं शुभाशुभानुष्ठानं तस्य नाशः-वर्गादिनरकादिलक्षणस्य फलस्य अलाभोऽनुपभोग इत्यर्थः, ततो द्वन्द्वः, तौ प्रसज्यते इति शेषः, अयमर्थः-ब्रह्मचर्यप्राणवधादिफलं हि खर्गनरकादिकं जन्मान्तरे भोक्ष्यते येन च ज्ञानक्षणेनेह जन्मवर्तिना ब्रह्मचर्यादिकमनुष्ठितं तस्य तदैव विनष्टत्वान्न ब्रह्मचर्यादिफलस्य स्वर्गादेरुपभोगः-सङ्गतिमियर्ति, यस्य च जन्मान्तरभाविनो ज्ञानक्षणस्य स्वर्गाद्युपभोगः संपत्स्यते न तेन ब्रह्मचर्याद्यनुष्ठितं, तथा चान्यो ज्ञानक्षणः शुभाशुभकर्मणः कर्चा, अन्यश्च तत्फलोपभोक्त्यकतागमकृतनाशौ प्राप्नुतः, तथा च वृथा परलोकानुष्ठानाभ्युपगमः, "विज्ञानक्षणे' क्षणिकज्ञान एव, 'भावतः' परमार्थतः 'सति' विद्यमाने, ज्ञानक्षण एव प्रतिक्षणविशरारुः संतन्यमानो वास्तवः कर्तृभोक्तृस्वभावः समस्ति, न तु तदाश्रयः स्थेयान् कश्चिदात्मा प्रमाणसहोऽस्तीति पक्षाभ्युपगम इत्यर्थः, तेन संवृतिसत्यप्रामाणिकलोकस्थिरैकप्रत्ययगोचरे सत्यप्यात्मनि नासाकं काचित्क्षतिस्तस्याऽपारमार्थिकवादिति भावः कथमकृताभ्यागमादिप्रसङ्गः १ इति चेद् अत आह-'उदयानन्तरम्' उत्पादोत्तरक्षण एव 'नाशेपूर्वज्ञानक्षणस्य ध्वंसे अभ्युपगम्यमाने इति शेषः, येन ज्ञानक्षणेन' 'कृ' निम्मितं कुशलाकुशलकर्म स ज्ञानक्षणो 'न
For Private and Personal Use Only