________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
SASARAMROSAGAR
बीजस्याङ्करकरणाकरणसम्भवेन सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्मसंसर्गाभावात्कुशूलनिहितसामग्रीगतबीजयोर्भेदाभावेन क्षणिकत्वायोगान सत्त्वक्षणिकत्वयोर्व्याप्तिसिद्धिः, एतेन विपर्ययसाधनमपि प्रत्युक्तं कुशूलनिहितबीजादरानुत्पादस्य सहकारिवैकल्यप्रयुक्तत्वात् , तथाच न सत्त्वेन क्षणिकत्वं भावानां सिध्यति, भवतु वा क्षणिकोऽर्थः तथापि सोऽथेक्रियां कुर्वाणः स्वक्षणे कुर्यात्, पूर्वक्षणे वा, उत्तरक्षणे वा, इति त्रयः कल्पाः , तत्र न तावत्खक्षणे समसमयभावित्वेन क्षणयोः सव्येतरगोविषाणयोरिख हेतुहेतु मद्भावानुपपत्तेः, न द्वितीयः, स्वयमसतः कारकत्वायोगात्, न तृतीयः, उत्पादानन्तरं विनष्टस्य कर्तृत्वाभावात् , ततश्च त्रिष्वपि कालेषु क्षणिकस्वार्थक्रियाऽसम्भवेन कार्यस्याकस्मिकत्वप्रसङ्गः, किश्च त्रिकालस्थाय्यात्माऽनभ्युपगमे ज्ञानानां क्षणनश्वरत्वेन पूर्वानुभूतार्थसरणानुपपत्तिः, अन्येन ज्ञानक्षणेनानुभूतेऽर्थेऽन्येन स्मृतेरसम्भवात् , अन्यथा देवदत्तानुभूतेऽर्थे यज्ञदत्तस्यापि सरणप्रसङ्गात् प्रतिसन्धानमपि न प्राप्नोति, तद्धि यजातीयं सकन्दनादिकं सुखहेतुम् अहिकण्टकादिकं दुःखहेतुं वा पूर्वानुभूतं
स्मरामि तजातीयमिदानीमनुभवामीति एवमाद्याकारेण पूर्वानुभवतजन्यसंस्कारद्वारकम्मरणवर्चमानानुभवानामेकेनानुव्यवसाहै येनैक कर्तृकतया सङ्कलनं तदेतदेतेषां ज्ञानानामेकं सङ्कलयितारं विना न स्यात् , भावे वा चैत्रज्ञानानां मैत्रेण प्रतिसन्धानापत्तेः, नानात्वेऽपि ज्ञानानां कार्यकारणभावादन्यज्ञानक्षणानुभूतेऽन्येन सरणं प्रतिसन्धानं वा भविष्यति, चैत्रमैत्रज्ञानानां तु तदभावान चैत्रानुभूते मैत्रस्य मरणादिकमिति चेत्तन्न, उपाध्यायानुभूते शिष्यस्य सरणादिप्रसङ्गात् , तज्ज्ञानानां कार्यकारणभावाविशेषात् , शरीरभेदाग्रहे सतीति चेत्, न, प्राग्जन्मानुभूतार्थानामिह जन्मनि जातिसरेणास्मृतिप्रसंगात् , जातिसरणस्य च भवताऽप्यभ्युप
KISAHARACACACAC++
॥८३॥
For Private and Personal Use Only