SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संसर्गः सिध्यतीति चेत् , तथा हि वर्तमानक्षणभावि कार्य जनयतो बीजस्य यदि भूतभाविकार्यजननसमर्थाद्वीजा दो नास्ति, 1 तदा समर्थस्य क्षेपायोगेन भूतभाविनी अपि कार्ये वर्तमानक्षण एव जनयेदिति प्रसङ्गः, न जनयेच्चेत्तीसमर्थ तदिति विपर्ययः, तच्च समर्थादन्यदिति, न टेकमेवैकमिन्नेव कार्ये समर्थमसमर्थ चेति घटते, यद्यदा यजननसमर्थ तत्तदा तत्करोत्येव, यथा सामग्रीमध्यमध्यासीनं बीजमकरं, समर्थश्चायं वर्तमानक्षणभाविकार्यकारी भावो भूतभाविनोरपि कार्ययोर्भवद्भिरभ्युपगत इति दि प्रसङ्गहेतुः, नच वर्तमानक्षणभाविकार्यकाले भूतभाविनी अपि कार्ये करोति, तसाद्भवतु विपर्ययः, यद्यदा यन्न करोति न तत्तदा तज्जननसमर्थ, यथा शाल्यकुरे यवबीजं, न करोति च भावो वर्तमानक्षणभाविकार्यकाले भूतभाविनी कार्ये इति, तसा-2 समर्थात्सामग्रीपतितानावादन्यः कुशूलादिनिहितोऽसमर्थो भाव इति सिद्धः क्षणभङ्ग इति चेत् न, विकल्पानुपपत्तेः, प्रसङ्गहेतौ हेतुतया सामर्थ्य यदुपन्यस्तं तत्कि करणं वा विवक्षितं योग्यता वा, नाद्यः, साध्यसाधनयोरभेदेन साध्याविशिष्टत्वप्रसङ्गात्, नापि द्वितीयः, योग्यता हि सहकारिसाकल्यं वा स्वाभाविकी वा, न प्रथमः, सहकारिसाकल्यवतो बीजस्य सर्वैरप्यकुरकतृत्वाभ्युपगमेन सिद्धसाधनात्, स्वाभाविकी तु योग्यता बीजत्वं वा बीजत्वावान्तरजातिभेदो वा स्यात् , नाद्यः, कुशूलादिनि|हिते बीजेऽङ्कुरमकुर्वाणेऽपि बीजजातीयत्वस्य सम्भवात् , भवतोऽपि तत्र विप्रतिपत्तेरभावात् , न द्वितीयः, अकुरं कुर्वाणे बीजे बीजत्वावान्तरजातिभेदस्याप्रामाणिकत्वेन मयाऽनभ्युपगमात् , तथा च साधनविकलो दृष्टान्तः, नहि बीजत्वावान्तरजातिभेद: प्रत्यक्षेण गृह्यते, तथा निश्चयाभावात् , नाप्यनुमानेन लिङ्गाभावात् , ननु तर्हि कुतो विशेषात्समर्थमपि कुशूलगतं बीजमकरं न करोति, सामग्रीमध्यगतं तु करोतीति चेत् सत्यं, सहकारिलाभालाभाभ्यामिति संभावयामः, तथा च ताभ्यामेव समर्थस्यापि KAMSUCCCCBSE 4% ACKASARAI For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy