SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandit पंचलिंगी दृत्तिः ॥८२॥ SACROSSAMACCORDC कायविषयोऽहमिति व्यपदेशः? इति चेत् न, औपचारिकलात्तस्य, अनादिकालात्यन्तिकसम्बन्धेनाभेदाध्यवसायादात्मनः कायेऽप्यहंशब्दाध्यारोपादहं गौर इत्यादिप्रतीतेरुपपत्तेः, अहं सुखीत्यादिप्रत्ययः कायाद्यतिरिक्तालम्बनःकायादिप्रत्ययेभ्यो विलक्षणप्रत्ययखात् पटादिप्रत्ययवदिति, तथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वाद्यत्पुनर्निरात्मकं न तत्प्राणादिमद् यथा घटः, न च जीवच्छरीरं न प्राणादिमत् , तस्मान्न निरात्मकमिति आत्मानं विना प्राणादिमत्त्वमनुपपद्यमानं विपक्षघटादिव्यावृत्त्या जीवच्छरीरे उपलभ्यमानमात्मसत्तां गमयति, तदेवं कायाद्यतिरिक्तस्य चैतन्याश्रयस्य त्रिकालस्थायिनो जीवस्य सिद्धेः, प्रेक्षावतां परलोकानुष्ठानस्यापि फलवचसिद्धिः, स्वर्गापवर्गार्थिनां कुशलानुष्ठानं फलवत् प्रेक्षावदनुष्ठानखात्, वणिगादीनां वाणिज्याद्यनुछानवत् , तदेतदपि जीवं विना अघटमानं प्रेक्षावद्भिश्चादरेण विधीयमानं परलोकिनं जीवं सूचयति, न हि. प्रेक्षावन्तो निष्फलं चेष्टन्त इति गाथार्थः ॥ ७८ ॥ अत्र बौद्धः प्राह-त्रिकालानुगश्चैतन्याश्रयो जीवोऽस्तीति न सङ्गच्छते, सकलभावानां क्षणिकवात् , तथा हि यत्सत्तत् क्षणिकं, यथा घटः, संश्च विवादाध्यासित इति, सत्त्वं चार्थक्रियाकारिख, नहि संश्चार्थो न चार्थक्रियाकारीति संभवति, तथा च ज्ञानान्येव संतन्यमानानि क्षणिकानि सन्ति, न ततोऽन्यस्तदाश्रयस्थास्नुः कश्चित् ? इति चेत् न, दृष्टान्ते घटादौ कालान्तरस्थायिनि क्षणिकबस्यासिद्धेहेंतोविरुद्धखेन सत्त्वस्य क्षणिकवेन व्याप्त्यसिद्धेः, ननु कालान्तरभाविजलधारणाद्यर्थक्रियासामर्थ्येन वर्तमानकाले च तदसामर्थ्येन सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्मसंसर्गेण पूर्वापरकालयोर्घटादेष्टान्तस्यैकत्वासिद्धौ क्षणिकत्वं सेत्स्यति, योहि विरुद्धधर्माध्यासितो नासावेकः, यथा जलानलौ, विरुद्धधर्माध्यासितश्च पूर्वापरका-18 लयोरेकत्वेन विवक्षितो घटादिरिति चेत न. सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्मसंसर्गासिद्धेः, प्रसङ्गतद्विपर्ययाभ्यां विरुद्धधर्म For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy