________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RECENSESSES
प्रध्वंसेऽपि पूर्वानुभूतार्थसरणात् , न चानुभवितरि प्रध्वस्ते सरणं घटते, विवादास्पदं रूपादिस्सरणं नेन्द्रियोपादानकं, तदन्त
रेणापि जायमानत्वात् , तंतूनन्तरेण जायमानघटवत् , दर्शनस्पर्शनाभ्यामेकार्थग्रहणाचेन्द्रियगुणश्चैतन्यं न भवति, यमहं पटमहै द्राक्षं. तमेवेदानीं स्पृशामीत्येकार्थविषयं हि प्रतिसन्धानं दृष्टम् , इन्द्रियचैतन्ये च चक्षुषो रूपविषयत्वेन स्पर्शनस्य च स्पर्श
विषयत्वेनैतन्न स्यात् , न हि यदेवं रूपमहमद्राक्षं तमेवाधुना स्पर्श स्पृशामीति चक्षुः प्रतिसंधत्ते, नापि यमेव स्पर्शमस्त्राक्षं द्र तदेवेदानी रूपं पश्यामीति स्पर्शनस्य प्रतिसन्धानमस्ति, प्रतिनियतेन्द्रियग्राह्यत्वेन रूपस्पर्शयोर्भेदात् , तस्माद्रूपस्पर्शवन्तमेकमर्थ :
चक्षुःस्पर्शनाभ्यां करणाभ्यां यः प्रतिसन्धत्ते स इन्द्रियातिरिक्तोऽन्योऽभ्युपेतव्यः, अथ सर्वार्थविषयत्वेन प्रतिसन्धानादिसम्भवात् मनसो गुणश्चैतन्यं भविष्यतीतिचेत् न, आन्तरसुखादिज्ञानोत्पत्तौ चेतनापेक्षणीयतया करणत्वेनैव तस्यानुमानाद, न
चैकमेवैकदा कर्तृ करणं च भवितुमर्हति, किञ्च शरीरवदिन्द्रियमनसोरपि जडत्वेन चैतन्यमजडं प्रत्यत्यन्तवैजात्येन नोपादानभावः है कथमपि सङ्गच्छते, तसाच्छरीराद्यतिरिक्तस्य यस्य चैतन्यं गुणः स जीव इत्यात्मेति चाख्यायते, स चाहं सुखी अहं दुःखी-16
त्यादिरूपान्तर्मुखस्वसंवेदनप्रत्यक्षेण प्रतीयमानखात्सर्वप्राणिनां स्वसंवेदनप्रत्यक्षः, नन्वहं सुखीत्यादिप्रत्ययस्याहं गौरः पीनो युवे|त्यादिप्रत्ययवच्चैतन्य विशिष्टकायविषयत्वेनाप्युपपत्तेः, किं? कायातिरिक्तात्मकल्पनया, नह्यहं गौर इत्यादिप्रत्ययः कायातिरि
तालम्बनतयोपपादयितुं पार्यत इति चेत् न, अहं सुखीत्यादिप्रत्ययस्य कायविषयत्वे घटादिवत्कायस्यापि भूतत्वेन घटादिध्वयं घट इत्यादिबहिर्मुखप्रत्ययवत्कायेऽप्ययं सुखीति बहिर्मुखः प्रत्ययः स्यात् न चैवमस्ति, कायाकारपरिणतिलक्षणस्तु घटादिभ्यो विशेषः प्रागेव निरस्तस्तसादहं सुखीत्याधन्तर्मुखप्रत्ययेन कायातिरिक्तश्चेतनः संवेद्यते, कथं तह गौर इत्यादौ
CAXAMACASSA
For Private and Personal Use Only