SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवादाध्यासितानि भूतानि चैतन्यवन्ति कायाकारपरिणामवत्वात् , यानि पुनरचेतनानि न तानि कायाकारपरिणामवन्ति यथा दण्डादिभूतानीतिचेत् न, अचेतनेष्वपि मृतशरीरभूतेषु कायाकारपरिणामवत्वस्य गतखेन हेतोरनैकान्तिकखात्, अथानैका|न्तिकबभिवेत्थं प्रयोगः क्रियते-कायाकारपरिणतानि भूतानि चैतन्यवन्ति प्रवृत्तिविशेषवत्त्वात् , यानि पुनरचेतनानि न तानि प्रवृत्तिविशेषवन्ति यथा घटादिभूतानीति तन, एवमपि कायाकारपरिणतेष्वपि मृतदेहभूतेषु प्रवृत्तिविशेषाभावेन हेतो गासिद्धनात् ननु कायाकारपरिणतान्येवेति हृदयस्थावधारणेन यदि चैतन्यं भूतेषु तदा कायाकारपरिणतेष्वेवेति चैतन्यं नियम्यते, नखेवमवधार्यते, कायाकारपरिणतानि चेतनान्येवेति, तथा च प्रवृत्तिविशेषकक्षीकृतानामेव पक्षीकरणात् , तद्विकलानां कायाकारप|रिणतानामपि मृतदेहभूतानां पक्षबहिर्भावात् तै गासिद्धखोद्भावनं हेतोरसङ्गतमिति, तन्त्र, कथायां हि वचनगतानां गुणदोषाणां विचार्यमाणतया हृदयस्थावधारणेन दोषोद्धारानवकाशात् , भवतु वा हृदयस्थावधारणं, तथापि प्रवृत्तिविशेषवत्त्वस्य खरूपासिद्धखात् , तथा हि प्रागुक्तमदशक्तिदृष्टान्तेन हि भवता कायाकारपरिणतानामेव भूतानां चैतन्यं साधयितुमुपक्रान्तं तन्यायेन च मदिरावयवेष्वेकैकशोऽपि मदशक्तरुपलम्माच्छरीरावयवेष्वपि प्रत्येकं चैतन्यप्रसङ्गेनैकसिन्नपि शरीरे बहूनि चेतनानि प्राप्तानि, बहूनां च विरुद्धविचित्राभिप्रायतया ऐकमत्येन प्रवृत्तिविशेषासम्भवात् , अजाकपाणीयन्यायेन कथञ्चिदेकाभिप्रायलेऽपि नियमा भावात्कथं न स्वरूपासिद्धता हेतोरिति, प्रत्यक्षमेवैकं प्रमाणमातिष्ठमानस्य च भवतोऽनुमानप्रयोगेऽपसिद्धान्तः, किश्च प्रत्येकमवयवचेतन्याभ्युपगमे कथञ्चित्करचरणाद्यपगमे तदनुभूतार्थसरणं न स्यात, न च शरीरे भूतसमुदायपर्यवसितमेव चैतन्यमिति वाच्यं, कतिपयावयवापायेऽपि चैतन्यभावात् , बाल्यकौमारयौवनवाझुकावस्थासु शरीरान्यखेन प्रागवस्थानुभूतस्यासरणप्रसङ्गाच्च, ALANKAR For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy