SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥८ ॥ SAMACHAR शरीरायाससाध्यमनुष्ठानं विदधीतेति, अत्र भूतचैतनिकाः प्रत्यवतिष्ठते-ननु चैतन्यमुपयोगो ज्ञानमिति पर्यायाः, चैतन्यं च जीवलक्षणलेन भवता प्रत्यपादि, तच्च न घटां प्राश्चति, चैतन्यस्य भूतगुणवात् , अन्यगुणस्य चान्यलक्षणले रूपादेरप्याकाशल-18 क्षणखप्रसङ्गात् , तसायेषां प्रवृत्तिनिवृत्तिभ्यां तनिमित्तखेनेच्छाप्रयत्नावनुमाय ताभ्यां च तदेकार्थसमवेतं चैतन्यमनुमीयते, तेषां च गुणश्चैतन्यं तानि च कायाकारपरिणतानि भूतानि तस्माच्छरीरगुणश्चैतन्यमिति चेत् तन्त्र, चैतन्यस्वेच्छाप्रयत्नहेतुकयोः प्रवृत्तिनिवृत्त्योः प्रयोज्याश्रयतयैव परश्वादिषु दर्शनात् , तद्यदि चैतन्याद्याश्रयः शरीरं तदा तस्य प्रयोजकतया तदाश्रये प्रवृत्तिनिवृत्ती न स्याता, ततश्च तत्रापि प्रवृत्तिनिवृत्ती ततः शरीरादन्यः कश्चिच्चैतन्याद्याधारस्तस्य प्रवृत्तिनिवृत्ती प्रति प्रयोजकोऽभ्युपेयः, तथा च प्रयोगः शरीरमिच्छाप्रयत्नचैतन्यानाश्रयः इच्छादिजनितप्रवृत्तिनिवृत्त्याश्रयखात् , परश्वादिवदिति, कि यदि कश्चिदविशेषण भूतानां चैतन्यमिच्छनिच्छाप्रयत्ननिमित्तिके प्रवृत्तिनिवृत्ती प्रयोजकेपि शरीरेऽभ्युपगच्छेत् , तदा तस्य मते यथा पृथिव्यादीनां गुरुवादिगुणान्तरहेतुका पतनादिका प्रवृत्तिस्तत्प्रतिबन्धहेतुका चापतनादिका निवृत्तिः सर्वपृथिव्यादिषुपलभ्यते, न तु शरीरारम्भकेष्वेव तेषु, तथा चैतन्येन भूतानां तदिच्छाप्रयत्ननिमित्तिके अपि प्रवृत्तिनिवृत्ती सर्वभूतेषूपलभ्येयातां चैतन्यादीनामपि । पृथिव्यादिगुणवेन गुरुखादिवद्भवदुपगमेन सकलपृथिव्यादिसाधारणात् , न च घटादिभावमापनेषु पृथिव्यादिषुपलभ्यन्ते चैतन्यादयस्तनिमित्तिके प्रवृत्तिनिवृत्ती वा, तस्मान पृथिव्यादिगुणाश्चैतन्यादयः, ननूक्तं मदशक्तिवच्चैतन्यं भूतानाममाभिरभ्युपेयते न खविशेषेण, यथा हि परिणामविशेषेण मदिराभावमापन्नेष्वेव गुडधातकीप्रभृतिषु मद्यानेषु मदयित्री शक्तिर्न बेवमेव विशकलितेष्वपि, एवं कायाकारपरिणतेष्वेव भूतेषु चैतन्यमाविरस्ति नान्येषु, तत्कथं घटादिषु प्रसङ्गः स्यात् , प्रयोगश्च ॥८ ॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy