________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
5455554
च जीवशब्दस्य व्युत्पत्तिनिमित्तं, न तु प्रवृत्तिनिमित्तं, प्राणधारणाभावेन मुक्तात्मनामनेनासङ्ग्रहात् , अतोऽनेन व्युत्पत्तिनिमित्तेन | तदेकार्थसमवेतं जीवशब्दप्रवृत्तिनिमित्तमुपयोगो लक्ष्यते उपयोगलक्षणखात् जीवस्य, तेन मुक्तात्मनोऽपि जीवखेन संगृहीता
भवन्ति, यथा गच्छतीति गौरिति गमनक्रियायां व्युत्पादितस्यापि गोशब्दस्य गमनक्रियैकार्थसमवेतं गोलं प्रवृत्तिनिमित्तं, न | गमनं, तेन गच्छन्नगच्छन् वा गोर्गोशब्दप्रवृत्तिविषयी भवति, एवमिहापि प्राणान् धारयन्त्रधारयन् वा उपयोगलक्षणेन जीवो जीवशब्दप्रवृत्तिगोचरीभवति, सकलजीवव्यक्तिव्यापकखादुपयोगस्य, तथाचागम:-"सबजीवाणं पि य णं अक्खरस्स अणंतभागो निच्चुग्धाडिओ"त्ति सर्वजीवानामपि अक्षरस्य केवलदर्शनकेवलज्ञानरूपस्य शाश्वतबोधस्यानन्तो भागो नित्योद्घाटितः, यथा वहलाविरलजलधरपटल विलुप्तमरीचिनिचयप्रसरस्थापि भानोरवि कियानपि प्रकाशो विजृम्भते । अन्यथा जगदन्ध्यप्रसङ्गात्, तथा यद्यप्यनन्तानन्तैः कर्मपुद्गलैजीवा आवृता एव सन्ति, तथापि चैतन्यस्याल्पीयानपि भागस्तेषां नित्यमनावृत एवास्ते, इतरथा स्वखरूपत्यागात् जीवो जीवस्वमेव जह्यात् , तसादुपयोग एव जीवस्य लक्षणं, तच्च व्यतिरेक्यनुमानं जीवसिद्धौ, तथाच प्रयोगः-विवादाध्यासितः पदार्थो जीव इति व्यवहियते, उपयोगवत्त्वात् , यः पुनर्जीव इति न व्यवद्रियते, नासावुपयोगवान्, यथा घटः, न चायं नोपयोगवान् , तसान्न जीव इति न व्यवहियत इति, तमेवंविधं जीवं 'विना' अन्तरेण परलोकानुष्ठानं न | सङ्गतिमियति, विवाहोपकरणमेलक इव वोढारं विना निष्प्रयोजनवात् , सर्वोऽपि हि प्रेक्षावान् कथमहं निरर्गलदुर्गतिभ्रमण-1 रीणः स्वर्गापवर्गसंसर्गलाभेन सुखी स्वामित्यात्मप्रयोजनमुद्दिश्य तदर्थ कुशलकर्मणि प्रयतते, यदि वाऽहं शब्दगोचरः पदार्थ एव नास्ति, तदा क इवाकर्णहृदयः किमर्थ परलोकं मृगयेत, परलोकिनोऽभावात्परलोकस्याप्यसिद्धेः, कश्च तदर्थ बहुवित्तव्यय
For Private and Personal Use Only