________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्तिः ५ लि.
चिलिंदरूपः परिणामोऽप्यतीन्द्रियखात्कथं ज्ञायते । इति, अत आह-'तद्विधचेष्टया पुन:' उक्तप्रकारजिनालयादिनिर्मितिरूपबहिःक्रियया
*तु 'ज्ञायते' अनुमीयते 'भावोऽपि' भवोदधिनिमज्जज्जन्तुजातोद्दिधीषारूपोऽतरोऽपि परिणामो योऽतीन्द्रियनेन दु ततया तवा- ॥७९॥ | भिमत इत्यपिशब्दार्थः, 'एतस्य' सम्यग्दृष्टेः "अहेद्वेश्मविधापनादिविधिना सम्यग्दृशा क्लुप्तया लब्ध्वा बोधिमबाधितां बत यया
दाव्या विरत्याऽऽदृताः । गला नितिमाभवं विदधते रक्षां पृथिव्यादिषु ध्येया दर्शनलक्षणं क्षणकरी सैवानुकम्पा बुधैः ॥१॥"
इति गाथार्थः ॥ ७७ ॥ चतुर्थलिङ्गमिति अनुकम्पाख्यं लिङ्गं व्याख्यातमित्यर्थः ___ साम्प्रतं जिनप्रणीतजीवाजीवादिनवतत्त्वगोचरतथ्यताप्रतिपत्तिरूपमास्तिक्यं व्याचिख्यासुजीवसिद्ध्यधीनबादपरतवसिद्धेः सकलतत्त्वमूर्दाभिषिक्तं जीवतत्त्वं प्रथमं तावद् व्याख्यातुमाह
सम्मदिट्ठी जीवो जहत्थावोहाणुगो तओ मुणइ । परलोगाणुहाणं न घडइ जीवं विणा सवं ॥७८॥ व्याख्या सम्यग्दृष्टिरनुकम्पालक्षणेन लिङ्गेनानुमितसम्यक्त्रो जीवो 'यथार्थबोधानुगो' निरन्तरशुद्धसिद्धान्ताकर्णेनोपजाताविपर्यस्तज्ञानानुषक्तः, ततः यथार्थबोधात्तच्छब्देनात्र योग्यखात् यथार्थबोधोऽनुक्षप्यते 'मुणइत्ति जानाति किम् ? इत्याह-'परलोकः' स्वर्गापवर्गादिस्तत्प्राप्त्यर्थम् 'अनुष्ठानं' जिनपूजादानमहाव्रतपालनतपोब्रह्मचर्यातिकं कुशलकर्म, 'न घटते' न सङ्गच्छते, जीवति-पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छासनिःश्वासमायुरेवंरूपान् दशविधप्राणान् धारयति त्रिकालमिति जीवः, प्राणधारणं १ अद्वेश्मेति, विधिनिर्मापणेन, क्षणकरी समस्तस्वर्गापवर्गादिलाभोत्सवहेतुः ॥
॥७९॥
For Private and Personal Use Only