________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- 5
पंचलिंगी
प्रकरण. ४ लि.
CARRECRUGALAM
दानं 'प्रतिषिद्धं निवारितं 'भगवताऽपि तीर्थकरणापि न तु तीर्थान्तरीयैरेवेत्यपि शब्दार्थः 'नहि नैव 'सूत्रे आगमे सर्वत्रौचित्यप्रवृत्तेर्गुणकारितया प्रतिपादनात् यदाह-"उचियं खलु कायवं सव्वत्थ सया नरेण बुद्धिमया। इय फलसिद्धी नियमा एस चिय होइ आणत्ति ॥१॥" तीपात्राण्युद्दिश्य किमनुचितम् ? इत्याह-यत्पुनः 'तदर्थ' गृहागतापात्राद्यर्थम् 'असुमता' पृथिव्यम्बु| वनस्पत्यादिजीवानां 'घातनम्' अन्नपाकाय वयादिसंयोगेन व्यापादनं तत् 'न युक्तं' न समीचीनम् , अपात्रार्थ निरर्थक जीववधेन तावतः पापराशेः खात्मनि भारारोपस्य प्रेक्षावतोऽत्यन्तानुचितखात्, यदुक्तम्-"काऊण य पाणिवहं जो दाणं देइ धम्मसद्धाए । देहिऊण चंदणं सो करेइ अंगारवाणिजं ॥१॥ कडमई काऊणं दमदयरहियाण देइ जो दाणं । सो मूसे मारेउं पोसेइ नवरि मजारे ॥२॥" इतिशब्द आद्यर्थः, तदर्थ जीवहत्याकारणानुमती अपि न युक्तेति दर्शयतीति गाथार्थः ॥७५।। एतत्समर्थनायैव परस्यानिष्टप्रसङ्गद्वयमाह
इह सत्तागाराई कहं न दिढ जिणिंदधम्मम्मि । इहरा इट्टापूयं न निसिद्धं हुजं समयम्मि ॥७६ ॥
व्याख्या-इतरथा इतिपदं, मध्यगतं पूर्वोत्तरयोवाक्ययोः संबध्यते, 'इतरथा अन्यथा असंयतदानार्थ जीवघातस्य युक्तखाभ्युपगम इत्यर्थः, 'इह' अस्मिन् ‘सत्रागारं सदा दानगृहं यत्रातिथिकार्पटिकरङ्कादीनां शश्वत्पुण्यार्थ भक्तादि दानं दीयते, आदिग्रहणात्पादि 'कथं' केन प्रकारेण 'न दृष्ट' विधेयतया पुण्यहेतुतया च न भाषितं 'जिनेन्द्रधर्मे वीतरागमते, अयमर्थ:-यदि जीवविराधनयाsपि असंयतदानं पुण्यहेतुरभविष्यत्तदा सत्रागाराद्यपि जिनमतेऽद्रक्ष्यत उभयत्रापि जीवघातेनाऽसंयतपोषाविशेषान्न चैवमस्ति तस्मात्तन्न युक्तमिति, तथा इतरथा इष्टं च पूतं च इष्टापूर्तम्, इष्टापूर्तखरूपं च तद्न्थे एवमभिधीयते-“एकाग्निकर्म हवनं
॥७८॥
For Private and Personal Use Only