________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
पंचलिंगी
प्रकरण. ४ लि.
॥७७॥
*******
*****
जीवघातनिमित्तताखरससिद्धैव, अतो दयालुः-सम्यग्दृष्टिरमूनि नोपदिशेदिति गाथार्थः ॥७२॥ तदेवं सम्यग्दृष्टविधेयनिषेध्यान्यु-* पदर्य सम्प्रति तेष्वेव विधिप्रतिषेधौ कर्त्तव्यतया निगमयन्नाह
तो अणुकंपपरेणं अविरयसम्मत्तणा उ पडिसेहो । पडिसिद्धाणं नियमा विहियाणं विहिओ कायवा॥७३॥ व्याख्या यस्मात्प्रागुक्तं कर्मजातं संकलं निःशूकतासूचकं तस्मादनुकम्पापरेण जीवदयाप्रधानेन अविरतसम्यग्दृष्टिना 'तु'। अवधारणे स च प्रतिषेधपदेन संबध्यते 'प्रतिषेध एव' निवृत्तिव कर्त्तव्य इतियोगः, प्रतिषिद्धानां जिनशासने कर्त्तव्यतया | निवारितानां प्रागभिहितवाप्यादीनां 'नियमात् निश्चयेन 'विहितानां भव्यजन्तुनिस्तारणाय विधेयतयोपदिष्टानां जिनालयादीनां | 'विधिः' निर्मापणं 'कर्त्तव्यः' अनुष्ठेयः न चास्याविरतखेन प्रागुक्तप्रतिषेध्यप्रतिषेधावधारणानुपपत्तिरिति वाच्यं, वापीकूपादिनिर्मापणस्य लोके धर्म्यतया रूढलेन तदुपदेशस्य मिथ्यात्वाविर्भावकतयाऽस्य मूलहान्यापत्तेः, तसानिषेध्यनिषेधे विधेयविधौ चास्य | नियम एव श्रेयान्, तद्भावस्य यथाक्रम मिथ्याखहानिसम्यक्तशुद्धिव्यञ्जकलादिति गाथार्थः ॥७३॥ ननु भवतु भणितयुक्त्या वाप्यादिविषय उपदेशः सम्यग्दृशः प्रतिषेध्यः, दानोपदेशो दानं च पुनः पात्रापात्राविभागेन तस्य विधेयं भविष्यति, तयोः पुण्यहेतुखेनैव प्रायः सर्वेषामविवादसिद्धखादित्याशक्य तत्र यनिषेध्यं यच विधेयं तद् गाथाद्वयेनाह
दाणं न होइ विहलं पत्तमपत्ते य संनिउज्जंतं । इय वि भणिए दोसा पसंसओ किं पुण अपत्तो॥७४॥
व्याख्या-'दान' भक्क्या भक्तपानादिविश्राणनं 'न भवति' न जायते 'विफलं' समीहितफलापेक्षया निरर्थक 'पात्रे' संयते |मकारः प्राकृतवात् , 'अपात्रे असंयते 'च' समुच्चये 'संनियुज्यमानं' वितीर्यमाणम् अविशेषेण पात्रापात्राभ्यां दानं सफलमेव
HARSARKARRERNA
॥ ७७॥
For Private and Personal Use Only