________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥७६॥
ESA**
ALSANSAGAR
हानिप्रसङ्गात् यदुक्तम्-"सीलवयरहियाणं जं खलु दिजइ धणं कुपत्ताणं । तं खलु धोयइ वत्थं रुहिरखयं सोणिएणेव ॥१॥"18 पात्रदानस्यापि शुद्धस्यैव स्वर्गापवर्गहेतुतयाभिधानादिति गाथार्थः ॥ ६९ ।। ___ इत्तो चिय सो हलसयडपोयसंगामगोहणाईसु । उवएसपि हु कहं देइ सत्तअणुकंपासंयुत्तो ॥७॥ ___ व्याख्या-'अत एव' उक्तनीत्या स्तोकेन बहुहारणादेवेत्यर्थः, स इति सम्यग्दृष्टिः, 'हलं' लाङ्गलं शकट-गत्री, पोतः-यानपात्रं है सङ्ग्रामः-रणः, गोधनं-गोकुलं, हलादिभिश्च तत्कर्माणि लक्ष्यन्ते, आदिशब्दादन्यदपि तथारूपं पापहेतुमृगयादिकर्मग्राह्य, ततोले
द्वन्द्वगर्भो बहुब्रीहिः अतस्तदादिषु-तत्प्रभृतिषु कर्मसु 'उपदेशमपि' भोः कृषीवलाः ? 'धन्या' धार्मिकप्रवरा यूयं यनिर्मितेन ४ कृषिकर्मणा सर्वाऽपीयं प्रजा जीवतीत्यादि प्रशंसावचनसन्दर्भेण तेषां तदन्येषां च तत्र सुतरां प्रवर्त्तनम् , एवं शकटादिकर्मखपि
उपदेशः स्वधिया भावनीयः, आस्तां निरवद्यजीविकया निर्वहतः स्वयं करणकारणे इत्यपि शब्दार्थः 'हु: वाक्यालङ्कारे 'कथं' केन प्रकारेण 'ददाति' प्रयच्छति श्रोतृभ्य इति शेषः, न कथश्चित् , 'सत्त्वानुकम्पासंयुक्तः' भूतकृपालुः हलकर्षणादीनां ह्यसङ्ख्यप्राणिप्रमापणकारणलेन महापापाधिकरणतया तदुपदेशस्य सततमर्हत्समयसुधारसपूर्णकर्णहृदयस्य सम्मग्दृष्टेरनौचित्यात्, यदाह"खित्ते खडेह गोणे दमेह एमाइ सावगजणस्स । उवइसिउं नो कप्पइ जाणिय जिणवयणसारस्स ॥ १॥” इति गाथार्थः ॥७॥ चाणक पंचतंतय कामंदयमाइरायनीइओ। वक्खाणंतो जीवाणं न खलु अणुकंपओ होइ॥७१॥
X व्याख्या-चाणक्यप्रणीता राजनीतिश्चाणक्यः, उपचारात् , 'पञ्चतन्त्रकं पञ्चाख्यानकं, कामन्दकिप्रोक्ता राजनीतिरपि कामन्दकिः, |मकारः प्राकृतखात्, आदिशब्दादन्या अपि तथाविधा मन्तव्याः, तदाद्या राजनीति:-राज्ञामाद्युपायप्रदर्शकानि शास्त्राणि
* SHAXX
॥७६॥
For Private and Personal Use Only