SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी प्रकरण. ॥७५॥ RECAR 156 | 'आहारः' भोजनम् 'औषधम् अगदः 'भैषज्यं तदेव बहुद्रव्यमेलकनिष्पन्नं 'वस्त्रम्' आच्छादनम् , आदिशब्दात्कम्बलादिपरिग्रहः, तैः प्राशुकैषणीयैः 'उपष्टम्भ' शरीरोपग्रह 'कृता' विधाय, शुद्धाहाराद्युपष्टम्भं विना महाप्राज्ञानामपि शास्त्राध्ययनाद्यसम्भवात् , 'पुस्तकानि' प्रतीतानि 'समर्प्य तेभ्यो दत्त्वा 'शासन' जिनप्रवचनं 'कुतीर्थिनां' सौगतादीनाम् 'अधर्षणीयम्' अजय्यम् 'एतत्' इदं 'करिष्यामि' विधास्यामि प्रतिभादिप्रगल्भतार्किकमुनिपुङ्गवालोकनेन स्वपराजयशङ्कया प्रागेव प्रतिवादिनां भगवच्छासनविजिगीषाया असम्भवात् कथश्चित्सम्भवे वा तदैव राजसभायां तेषां तैःपराजयादिति कुतस्त्या तस्य धृष्यतेत्यर्थः, ततश्च अधृष्यखबोधानन्तरं 'जिनधर्मे' अर्हत्पथे 'गुणरागिणः' प्रेक्षावन्तः 'जना' लोकाः 'खलु' निश्चयेन 'संभोत्स्यन्ते' सम्यक् प्रतिपत्ति करिष्यन्ति, परीक्षापूर्वकारितया हि हेयपरिहारेणोपादेयस्य तैरुपादित्सितखात् , अन्यथा गुणरागिखानुपपत्तेरित्यर्थः 'तेतु' ते पुनः | संबुद्धाः सन्तः 'सत्त्वानां' पृथिव्यादीनां प्राणिनाम् 'अभयं सर्वविरतिपरिग्रहेण रक्षां 'करिष्यन्ति' सम्पादयिष्यन्ति 'ततः तस्सा| जनसम्बोधनादेहेतोः एतत् एतच्चेति वीप्सया इदं चेदं च सर्व पूर्वोक्तं जिनालयनिर्माणपुस्तकलेखनादिकं कारयामि' निर्मा|पयामीत्यनुकम्पावान् चिन्तयतीति गाथात्रयार्थः॥६५॥६६॥६॥तदेवं सम्यग्दृष्टेरनुकम्पावतो विधेयमुक्खा सम्प्रति निषेध्यमाहत वावीकूवतडागाइगोयरं देइ न खलु उवदेसं। जमसंखविणासेणं न होइ थेवाणमणुकंपा ॥ ६८॥ व्याख्या-वापी दीर्घिका कूप:-उदपानं, तडागः-सरः, आदिशब्दादरघट्टप्रपादि गृह्यते, तद्गोचरं वाप्यादिविधापनविषयं 'ददाति' वितरति 'न खलु' नैव लोकानामनुकम्पावानिति शेषः, 'उपदेशं तृषार्तानां जलपानादिना सौस्थ्यापादकलेन वाप्यादीनामनुकम्पाहेतुत्वात् कर्त्तव्यतया शिक्षणं, कसादेवम् ? इति, अत आह-'यत्' यसात् 'असङ्ख्यानां' गणनातिगानाम् एकेन्द्रिया | ॥ ७५॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy