________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
छद्दरिसणतक्कविआ कुतित्थिसिद्धंतं जाणया धणियं । ता ताण कारणे सव्वमेव इह होइ लेहणीयं ॥ ६४॥ | व्याख्या-जैनसौगतसाल्पजैमिनीयनैयायिकलौकायतिकमतभेदात् षड् दर्शनानि-प्रवादास्तेषां तर्काः तत्त-न्मतव्यवस्थापकानि प्रमाणशास्त्राणि तद्विदः-तद्रहस्याभिज्ञाः, 'कुतीथिकानां द्विजादीनां सिद्धान्ताः-श्रुतिस्मृतिपुराणादयस्तज्ज्ञायकास-तत्कुशलाः 'धणियंति' नितान्तं परतीर्थिकतर्कग्रन्थसिद्धान्तावबोधं हि विना प्रतिपक्षविक्षेपेण खपक्षसमर्थनायोगात्, एतेन खसमयपरसमयविदस्त इत्युक्तं भवति, न च परसमयानां मिथ्यात्राङ्कितखात्सम्यग्दृशां तत्पाठो न सङ्गत इति वाच्यं, सदृष्टिपरिग्रहेण तेषामपि | दुष्टखप्रदर्शनेन स्वसमयव्यवस्थापनया समीचीनखाभिधानात् तदुक्तम्-"परसमओ उभयं वा सम्मदिहिस्स ससमओ चेव ।" यत एवंविधा एव जिनागमसाधमसमर्थाः 'तत् तस्मात्तेषां साधूनां 'कारणे' इति निमित्तं 'सर्वमेव' सकलमेव, स्वपरशात्रवृन्दम् 'इह' प्रवचने 'भवति' युज्यते 'लेखनीयं' पुस्तकेषु (निवेश्यम् ) नियोज्यमिति गाथार्थः ॥ ६४ ॥ पइभाइगुणजुयाण वसही सयणासणाइणा निचं । आहारोसहिभेसजवत्थमाईहिं उवठंभं ॥६५॥ काऊण पुत्थयाई समप्पियं सासणं कुतित्थीणं । अधरिसणीयमेयं काहामि तओ य जिणधम्मे ॥६६॥ गुणरागिणो जणा खलु संवुजस्संति तेउ सत्ताणं । अभयं काहिता तओ एवं एयं च कारेमि ॥ ६७॥
व्याख्या सुसमाहिते चेतसि पदानां नवनवार्थविस्फुरणं प्रतिभा यदुक्तम्-"प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता ।" इति, |आदिशब्दान्मेधास्मृत्यूहाक्षोभ्यतादिग्रहः, प्रतिभादिभिर्गुणैरात्मधर्मैयुतानां सम्पन्नानां कुशाग्रीयप्रज्ञानां मुनीनां, 'वसतिः' आलयः, शयनं-संस्तारकः,आसनं-पादनोच्छनादि, आदिशब्दात्फलकादिग्रहः 'तदादिना' तत्प्रभृतिना वस्तजातेन 'नित्यं सर्वदा
For Private and Personal Use Only