________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
प्रकरण.
॥७४॥
KALKOREAKAMAKAR
श्रुत्योर्वा कर्णयोः सङ्गमस्तेन कर्णाञ्जलिपानेनेत्यर्थः 'उपलभ्य' सम्यकपरीक्ष्य 'वस्तुसद्भाव' देवादिपदार्थतत्त्वं, कुश्रुतिभ्यः परस्परव्याहतार्थेभ्यो हिंसाधुपदेशकेभ्यश्च कुतीर्थिकसमयेभ्यो निवृत्तः-परावृत्तो भाव-उपादेयताऽभिप्रायो येषां ते तथा, भगवद्वचः| पीयुपपानेन चैतन्यलाभाद्यपगतकुप्रवचनजनितमिथ्याखविषमूच्छोः सन्त इत्यर्थः 'भजन्ते' तत्वबुद्ध्या प्रतिपद्यन्ते 'जिनधर्मम्' अर्हन्मतम् 'एके' केचन जीवाः 'तुः' एवकारार्थः, सच भजन्त इत्यत्र योज्य इति गाथार्थः॥६२॥ साम्प्रतं न केवलं खसमय एव मया लेखनीयः किं तर्हि परव्याकरणाद्यवबोधं परतर्काद्यवगमं च विना साम्प्रतिकानां मन्दमतितया खसमयस्यापि दुर्बोधखादशक्यसमर्थनखाच परव्याकरणादीन्यपि साधुकृते लेखनीयानि, तथा पाठकसाधूनां वसत्याधुपष्टम्भेन पुस्तकदानेन च कुतीर्थ्याज्ञेयता| मागते प्रवचने भव्यसत्त्वप्रबोधोऽपि मदभिसन्धित्सितः संपत्स्यत इति तचिन्तां गाथापञ्चकेनाह
जिणवयणं साहंती साहू जं ते वि साहणसमत्था । वायरणछंदनाडयकवालंकारनिम्माया ॥ ६३॥
व्याख्या-'जिनवचन' भगवन्मतं 'साधयन्ति' भव्येभ्य उपदिशन्ति, प्रतिवादिकुतीर्थिकनिराकरणेन प्रतिष्ठापयन्ति वा 'साधवः' बहुश्रुता मुनयः 'यत्' यस्मात्कारणात् 'तेऽपि साधवोऽपि 'साधनसमर्थाः' जिनमतस्योपदेशनपटिष्ठाः प्रतिष्ठापनपटिष्ठा वा, व्याकरणाद्यभिज्ञाः सन्तो भवन्तीति शेषः, तत्र व्याकरणं-शब्दशास्त्रं, छन्दः-विचित्रपद्यलक्षणाभिधायकं शास्त्रं, नाटकं-'चतुःषष्ट्यङ्गसमन्वितमुखप्रतिमुखादिसम्पन्नः कौशिक्यादिवृत्तिचतुष्कपुष्कलः शृङ्गारवीरान्यतरागिरसप्रधानः षड्भाषानुषक्तः पञ्चादिदशान्ताङ्कपरिच्छिन्नोऽभिनयनायकादिचरितसम्बद्धः काव्यप्रवन्धः, काव्यं सर्गबन्धः, 'अलङ्कारः' काव्यदोषगुणव्युत्पादको ध्वनिशब्दार्थालङ्काराद्युपदर्शको ग्रन्थस्ततो द्वन्द्वः, तेषु निर्माता-निपुणास्तन्मर्मवेदिन इति यावदिति गाथार्थः॥६३॥
॥७४॥
For Private and Personal Use Only