________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
प्रकरण ४ लि
॥७३॥
कम्पा' रक्षणाभिप्राय इति गाथार्थः॥५८॥अथ तादृशं जीवोपमर्द प्रत्यक्षेण पश्यन्तः कथं तस्यानुकम्पासद्भाव प्रताम इत्यत आह
एयाहिंतो बुद्धा विरया रक्खंति जेण पुढवाई। इत्तो निवाणगया अबाहिया आभवमिमाणं ॥ ५९॥ व्याख्या-'एतस्मात् सदृष्टिना विधिनिर्मापितजिनसदनादिदर्शनात् 'बुद्धाः' तत्त्वज्ञानेन प्राप्तसद्दर्शनास्ततो 'विरता' 'विरत्या वारककर्मक्षयोपशमेन प्रतिपन्नचारित्राः सन्तः 'रक्षन्ति' न हिंसन्ति 'येन' यमाद्धेतोः 'पृथिव्यादीन्' जन्तून् पड्विधजीवनिकायरक्षारूपखाद्विरतिप्रतिपत्तेः, ततः किम् ? इत्याह-'इतः' एतस्मात्पृथिव्यादिरक्षणरूपाचारित्रात् 'निर्वाणगताः' मुक्तिपदं प्राप्ताः सन्तो ऽबाधका अहिंसका रक्षका इति यावत् 'आभवम् आसंसारम् ‘इमाणं'ति एषां जिनालयाद्युपयुज्यमानानामितरेषां च पृथिव्यादीनां ते जीवा भवन्तीति शेषः, सद्दृष्टिकारितजिनालयादिदर्शनाऽऽसादितरत्नत्रयमहिम्ना लब्धशाश्वतपदैस्तैर्यावत्संसारं सर्वपृथिव्यादी| नामभयदानविश्राणनात्कथं तत्त्वतस्तेषु तस्यानुकम्पा नास्तीति गाथार्थः ।। ५९ ॥ एतदेव दृष्टान्तद्वयोपदर्शनेन द्रढयन्नाह
रोगि सिरावेहो इव सुविज किरिया व सुपउत्ताउ । परिणामसुंदर चिय चिबा से वाहयोगेवि ॥६॥ __व्याख्या-'रोगिणो' रक्तविकारादिना व्याधितस्य षष्ठीलोपोत्र प्राकृतखात् , 'शिरावेध इव'-क्षतजाकर्षणाय शस्त्रेण नाडीबन्ध इव | 'सुवैद्यक्रियेव' च वैद्यकग्रन्थाभिज्ञव्याधिनिदानौषधपथ्यादिकुशलभिषग्वरचिकित्सेव 'सुप्रयुक्ता' निर्व्याजमुपचिकीर्षया प्रवर्तिता,
तुश्वार्थे योजित एव, रोगिण इतीहापि संबध्यते 'परिणामसुन्दरैव' आगामिनि काले सुखावहैव चेष्टा विधिना जिनावासादिनिर्मा|पणारम्भलक्षणाक्रिया भवतीति शेषः 'से' इति तस्य सम्यग्दृशः, बाधयोगेऽपि दृष्टान्तपक्षे आपाततो रोगिपीडादिसद्भावेऽपि दार्टीन्तिकपक्षे तु पृथिव्यायुपमर्दसम्भवेऽपि, एतदुक्तं भवति-यथा रुधिररोगिणः शिरामोक्षलक्षणा ज्वरादिरोगिणो वा लङ्घनोष्णोद
॥७३॥
For Private and Personal Use Only