________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
है इत्यादिना द्विविधाऽपि सम्यग्दृष्टेः सम्यक्त्वलिङ्गत्वेन विधेयतयोक्ता तथाऽपीह वक्ष्यमाणसूत्रानुसारेण द्रव्यानुकम्पाया उपसर्ज
नीभूतत्वेनाविवक्षणाद् भावानुकम्पा सम्यक्त्वलिङ्गं द्रष्टव्या, ततश्चानुकम्पापरो मुख्यतो भावकरुणापरायणः 'सदापि सर्वदैव | 'जीवाना' जन्तूनां 'भाविदुःखविप्रयोग' मिथ्यात्वादिहेतुकभविष्यद्भवक्लेशविरहं तेषां जीवानां 'गणयन्' परिभावयन् विचिकीर्षमित्यर्थः 'विचिन्तयति' परामृशति, इति गाथार्थः॥ ५३ ॥ इह हि द्वये जीवाः, सम्यग्दृष्टेरनुकम्पास्पदं भव्याश्चाभन्याश्च, तत्र चानुकम्पास्पदले समानेऽपि दुःखवियोगस्य कत्तुमशक्यतेन चाऽभव्यान् व्यवच्छेत्तुं भव्यांश्च सग्रहीतुं तच्चिन्तामाहनिययसहावेण हया तावदर्भवा ण मोइ सका । भवदुक्खाओ इमे पुण भषा परिमोयणीया उ ॥ ५४॥ व्याख्या-'निजकखभावेन' अनाद्यनन्तेन मुक्तिगमनायोग्यतालक्षणेन जीवपरिणामेन 'हताः' दृषिताः तावदिति निर्धारणे भवदुःखाशक्यमोचनत्वेन भव्येभ्योऽभव्या निर्धारिता इत्यर्थः, न भविष्यन्ति कदाचित्कल्याणपात्राणीत्यभव्याः, मुक्तिगमनायोग्या जीवाः 'मोचयितुं' वियोजयितुं 'नशक्या' न पार्याः 'भवदुःखात्' सङ्क्लेशात् 'इमे' योग्यतया प्रत्यक्षनिर्देश्याः, पुनरित्यनेनाभव्येभ्यो भिनत्ति, भव्या पुनरनादि तथास्वाभाव्याद्भविष्यत्कल्याणपात्राणि परिमोचनीयास्तु 'तुः' अवधारणे भवदुः| खाद्वियोजयितुं शक्या एव यदाह-"भवा जिणेहिं भणिया इह खलु जे सिद्धिगमणजुग्गाओ । ते पुणअणाइपरिणाम भावओ हुंति नायवा ॥१॥ विवरीया उ अभवा न कयाइ भवन्नवस्स ते पारं । गच्छिसु जंति व तहा तत्तुच्चिउ भावओ नवरं ॥२॥" इति गाथार्थः ॥ ५४ ॥ अथ मोचनोपायं दर्शयन् प्रस्तावनामाहसंसारदुक्खमोक्खणहउं जिणधम्मं अन्तरा नान्नो, मिच्छत्तुदयसंगयजणाणंस य परिणमिज्जइ कहनु ॥५५॥
For Private and Personal Use Only