________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्ति
॥७१॥
इइ भावणासमेओ सम्मदिट्ठी जिणेहिं अक्खाओ । तबिहचिट्ठा अवसियमणपरिणामो महासत्तो ॥५२॥ व्याख्या-'इतिभावणासमेतः प्रागभिहितसंसारदुःखमयत्वानित्यत्वाशरणत्वादिमनःपरिणामसहितः, सम्यग्दृष्टिः 'जिन'। भगवद्भिः 'आख्यातः कथितः, अथान्तरत्वात्परिणाम एवायमसदादिभिः कथमवसीयते । इति, अत आह-तविह'त्ति तद्विधा' तत्प्रकारा निर्वेदाभिव्यञ्जिकेति यावत् , 'चेष्टा' निःसूकतया सावद्यकर्माकरणात्मिका बाह्यक्रिया तया लिङ्गरूपया 'अवसितमनःपरिणामः' अनुमितनिर्वेदलक्षणचित्ताध्यवसायः 'महासत्त्व' व्यसनेऽप्यनाकुलः, प्रयोगश्चात्र अधिकृतः पुरुषः सम्यक्त्ववानिवेदवत्वात् सनत्कुमारचक्रवर्तिवदिति मन्तव्यः, “दुःखैः खस्य तथाङ्गिनां भवभुवा रोहनिरन्तस्तरामात्मा दुस्त्यजमिन्द्रियार्थजसुखस्नेहं परित्याजितः । शङ्के निष्प्रतिपातसातरतये येन क्षणात्सदृशा निर्वेदः स कथं न संसृतिहरः १ सम्यक्त्वलितं भवेदिति गाथार्थः ॥५२॥ तृतीयं लिङ्गमिति, निर्वेदाख्यं लिङ्ग विवृतमित्यर्थः
साम्प्रतमनुकम्पाख्यं तुर्य लिङ्गं व्याख्यातुकामो भव्यानुकम्पापरीतमनसः सम्यग्दृष्टेः कर्त्तव्यमभिधित्सुराहPI सम्महिट्ठी जीवो अणुकंपपरो सयावि जीवाणं । भाविदुहविप्पओगं ताण गणंतो विचिंतेइ ॥५३॥
व्याख्या-'सम्यग्दृष्टि' निर्वेद लिङ्गेन निश्चितसम्यक्त्वो जीवः 'अनुकम्पा' दया सा च द्वेधा द्रव्यभावभेदात् , तत्र द्रव्यतो बुभुक्षादिना क्लिश्यमानानां दीनादीनां दानादिना तत्पहीणे बुद्धिः, यथोक्तं 'भीतेषु आर्तेषु दीनेषु याचमानेषु जीवितं । प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते, भावतश्च मिथ्यादृशां मिथ्यात्वादिनिबन्धनेन संसारदुःखेन दुःखितानां बोधिप्रापणेन तद्वियोजनेच्छा, एषा च यद्यपि “दद्दूण पाणिनिवहं भीमे भवसायरंमि दुक्खत्तं । अविसेसओणुकंपं दुहावि सामत्थओ कुणइ ॥१॥
| ॥७१॥
For Private and Personal Use Only