SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -964 द्ययोगप्रत्याख्यानम् , अनुस्वारलोपःप्राकृतखात् , 'महंतो'त्ति अभिलषन्नपि, अपिरत्राध्याहार्यः, अप्राप्नुवन् च तदावारककर्मोदयेन निविडनिगडितखादलभमानः, अथवा 'विरतिमहं सर्वविरतिमहोत्सब 'तो'त्ति तस्मात्सावद्याभ्युपगमादप्राप्नुवन् , इति गाथार्थः ४९ मन्नइ जयंमि धन्ने सुसाहुणो चत्तभवदुहासंगे । अन्नमणाहमसरणं जयं सुदिट्ठी विचिन्तेइ ॥५०॥ व्याख्या-'मन्यते' अवधारयति 'जगति' लोके 'धन्यान्' सुकृतिनः 'सुसाधून्' सुविहितमुनीन् , कुत एतत् ? अत आह'त्यक्तभवदुःखासङ्गान्' समुज्झितसंसारक्लेशसम्बन्धान् तत्कारणपुत्रकलत्रमित्रसगोत्रप्रतिबन्धविरहादित्यर्थः, हेतुगर्भ विशेषणं, 'अन्यद्यतिव्यतिरिक्तम्' अनाथं सत्यपि राजादौ स्वामिनि भवदुःखरक्षणाक्षमतेन तस्य वस्तुतोऽस्वामिखात्वामिरहितम् अत एव | 'अशरणं' दुःख त्राणवर्जितं 'जगत् त्रिभुवनं यतिजनं विहायान्यत्र भवक्लेशत्राणपटीयस्याः सर्वविरतेरभावात् 'सुदृष्टिः सम्यग् दर्शनसम्पन्नः 'विचिन्तयति' विवेचयति इति गाथार्थः ॥५०॥ एवं च चारित्रिष्वनुरागाद्यादृगसौ भवति तद्दर्शयन्नाह सो सबविरइ आरा हरिसट्टाणं अपावमाणो उ न लहइ । सवत्थ धिई धणपरियणसयणगेहेसु॥५१॥ व्याख्या-स इति प्रागुक्तचिन्तावान् सुदृष्टिः, 'सर्वविरते.' प्रव्रज्यायाः 'आरात्' अर्वाक् तद्ग्रहणं विनेत्यर्थः 'हर्षस्थानम्' उत्सवपदम् 'अप्राप्नुवन्' अनासादयन् सर्वविरतेरेव नित्यानन्दमयपरमपदपथरथायमानखेन महोत्सवतया तेनेष्टनात् 'तुः' अवधारणे स चाग्रिमपदे योज्या, 'न लभत एव' न प्राप्नोत्येव सर्वत्र कापि धृति रतिं धनपरिजनखजनगेहेषु द्रविणपरिच्छदबान्धवमन्दिरेषु धनादीनिहि मुच्छोहेतुतया गाढवन्धनखेन सम्प्रधारितान्यपि मोहाद्विहातुमपारयन् समन्ताद्दहनप्रदीपितं कारागारमिव गृहाधिवासमधिगच्छन्न कचिदप्यसौ स्वास्थ्यं विन्दतीत्याशय इति गाथार्थः ॥५१॥ इदानीं निर्वेद लिङ्गमुपसंहरन्नाह ******************* For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy