________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CLICLEARCLEARN
कवनिषु दुःखश्रुत्या तन्मयतामिव प्राप्तस्याविरतिप्रत्ययमात्मनो भाविदुःखाविर्भावं निश्चिन्वतः सम्यग्दृष्टेभविष्यत्कालानुभाच्यान्यपि तानि वर्तमानकालानुभाव्यतया मनसि विपरिवन्त इति गाथार्थः॥४५॥
इत्तो चिय संलतं अप्पडिविरओ सुदिट्टीजं दुक्खं । वेयइ तं न अन्नो संसारी माणसं भयह ॥४६॥ व्याख्या-यतएव सम्यग्दृष्टमेनसि सर्वगतिदुःखानि विचरन्ति, अत एव हेतोः 'संलपित' भणितमागमे 'अप्रतिविरत:' अविरतः 'सुदृष्टि' सम्यग्दृष्टिर्यदनाख्येयस्वभावं 'दुःखं' खेदं 'वेदयते' स्वानुभवेन चेतयते, तत् 'नान्यः' सम्यग्दृष्टे पर: | 'संसारी भवस्थो जीवः 'मानसं चेतः प्रभवं भजते' अनुभवति इह च वेदयत इति क्रियानुवृत्तावपि यत्पुनर्भजतीति तदेकार्थ| क्रियान्तरोपादानं तत्तस्य दुःखातिशयं सूचयति, स ह्येवं मन्यते प्रवर्त्तन्तां नामैते पापकर्मसु जिनवचनश्रुत्या विद्धकर्णा हलधरगोपालादयः पशुदेश्याः, अहं तु नित्यं सिद्धान्ताकर्णेनावगतसंसाररहस्योऽपि यदेवं निःशङ्कतया तेषु व्याप्रिये तत्क मे संसारान्मोक्ष इत्याशयवान् भाविनी दुःखश्रेणीमात्मनः कलयन् कथञ्चित्कायिकादिसुखसम्भवेऽपि यदसौ मानसं कष्टं संवेदयते, तत्कोऽन्योऽनुभवेत् ? किं चाऽन्येषां प्रायः खदुःखेन दुःखितलं, तस्य तु गतिचतुष्टयवर्तिनामङ्गिना दुःखदर्शनात तयाजनचिन्तया महादौस्थ्यमिति तथा चागमः-"भयवं के संसारे दुक्खिया ? गोयमा ? सम्मद्दिट्टी अविरय"ति, इति गाथार्थः॥४६॥ पुनस्तश्चिन्तामेव स्फुटयन्नाह
वालोहधूलिगिहिरमणसंनिभं तस्स सवमाभाइ । देविन्दचक्कवट्टणाइपयमद्धयमवस्सं ॥४७॥ व्याख्या 'बालौघस्य' शिशुसमूहस्य 'धूलिगृहेण' जलापांशुनिर्मितक्षुद्रगेहेन वर्षादिषु 'रमणं' क्रीडा तेन 'संनिभं सदृशं
CCCCCESS
For Private and Personal Use Only