________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MAKER
SANSAMSSSS
शेषास्वपि बोद्धव्यम् , इह च पापीयसां प्राय उत्कृष्टेव स्थितिर्भवतीति ज्ञापनार्थमुत्कृष्टा सा दर्शिता, जघन्या तु प्रथमायां दशव-1 सहस्राणि द्वितीयादिषु तु पूर्वस्यां पूर्वस्यां या उत्कृष्टा सा यथोचरं जघन्या मन्तव्येति गाथार्थः॥ ३७॥ नरयाओ उच्चट्टो तिरिओ नरए पुणो वि तिरिएसु । दमणकणाइजणीयं भयतण्हछुहाइजणियं च ॥ ३८॥ दुक्खं नरयसमाणं तत्थ यमणुओ तु हयविहिनियोगा।हीणकुलजाइ जीवो पेसाण वि पिसणनिउत्तो ॥३९॥ व्याख्या-'नरकात्' प्रतीतात् 'उद्त्तः' स्थितिक्षयेण प्रत्यावृत्तः 'जीवः' तियेग्भुजगसिंहगृध्रादिरूपतिर्यग्जातीयो भवतीति शेषः, तत्र च पापं संचिन्त्य 'नरके' नरकावासे उत्पद्यते 'पुनरपि भूयोऽपि नरकादुदत्य असम्भृतधर्मजात 'तिर्यक्ष तिर्यग्जाती वृषभादिषु जायते, तत्र च दुःखं नरकसमानमित्युत्तरगाथया सम्बन्धा, कीदृशम् इत्याह-'दमनम्' अशिक्षितस्य वृषभादेराहारादिनिषेधरज्वादिसंयमनपुरस्सरं वश्यतापादनम् 'अङ्कनं' प्रत्यभिज्ञानार्थे देहखग्दाहपूर्वमक्षरादिनिर्माणम् , आदिग्रहणात्कर्णच्छेदनासिकावेधासनकरणनिलाञ्छनादिपरिग्रहः, ततो द्वन्द्वगर्भो बहुव्रीहिः, तैः 'जनितम्' उत्पादितं 'भयं' प्रहारार्थ प्राजनलगुडाधुत्क्षेपेण त्रासः 'तृष्णा जलाप्राप्तो दुस्सहा पिपासा 'क्षुत्' आहारालाभे शरीरग्लानिहेतुबुभुक्षा, आदिशब्दाच्छीतवातातपादिग्रहः, अत्रापि पूर्ववत्समासः, तैजनितं 'च' समुच्चये 'दुःखं नानाविधा बाधा 'नरकसमान' दुर्विपहखाभिरयतुल्यं तत्र चेति तिर्यक्ष पुन र्जातस्य भवतीतिशेषः, यदुक्तम्-"सीउण्हवासधारानिवायदुक्खं सुतिक्खमणुभूयं । तिरियतणमि नाणावरणसमुत्थाएणावि ॥" एवं तिर्यग्गतौ भूयांसमनेहसं महादुःखान्यनुभूय ततः कथञ्चित्कम्मक्षयोपशमेन निष्क्रान्तः सन् पुनर्मनुजः, तुः पूर्वस्माभिनत्ति' मनुष्यतया जायते, ततश्च हतविधिनियोगाद् दुःखसागरं गच्छवीत्युत्तरगाथान्तेन सम्बन्धः, हतेति दुर्दैवस्थाक्रोशवचनं विधिदैवं
A
CTe%%
For Private and Personal Use Only