________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥६७॥
नपपत्तेर्दयोरप्यानन्त्यमक्तं न किश्चिदेकमेकस्मात्सामय्या: सवेसम्भव इति न्यायादिति गाथार्थः॥३५॥ इदानी गतिचतोऽपिधाबृहढा दुःखं भावयन् नरकादिगतिक्रमेण तनिरूपणायाह
अच्छिनिमीलियमित्तं नत्थि सुहं दुक्खमेव संतत्तं । नरए नेरईयाणं अहोनिसं पच्चमाणाणं ॥३६॥ व्याख्या-'अक्षिनिमीलितमात्र लोचननिमेषपरिमाणम् अत्यल्पमपीत्यर्थः, 'नास्ति' न विद्यते 'सुखं शर्म 'दुःखमेव' कष्टमेव, 'संतप्तं' तीव्र, दुस्सहमिति यावत् सुखानुषक्तं हि दुःखं तीवमपि कथश्चित्सोढुं शक्येत, तत्र च सुखसंभेदगन्धोऽपि नास्ति इत्येवकारार्थः, अन्यथा सुखनास्तिखाभिधानेनैव दुःखसम्भवप्राप्तेदुःखमेवेत्यभिधानं पुनरुक्तमापयेत् , यद्वा 'संतत्त'मिति विर्भावः प्राकृतखात तेन सन्तत-मविच्छिन्नमित्यर्थः, 'नरके' सीमन्तादो 'नरयिकाणां' नारकाणाम् 'अहर्निशं' प्रतिक्षणं पच्यमानानां तन्दलानामिव कुम्भ्यां वहिना राध्यमानानाम् , अत्र च जिनजन्मादिक्षणे मनानारकाणां सुखसम्भवेऽप्यल्पीयस्तया तदविवक्षणादेवमुक्तमिति गाथार्थः ॥ ३६ ॥ अथ तत्र कियन्तं कालमुत्कर्षतो नारकाणामेवंविधं दुःखं भवति ? इति अत आह
सागरमगं ति य सत्त दस सत्तरस तह य वावीसा। तित्तीसं जाव ठिइ सत्तसु पुढवीसु उकोसा ॥७॥ व्याख्या-'सागरं समयभाषया पल्योपमदशकोटिकोटिप्रतीमः कालः सागरोपममेकं, तथा त्रीणि सप्त दश 'च' समञ्चये
॥६७॥ सप्तदश तथा चेति समुच्चये द्वाविंशतिःत्रयस्त्रिंशतं यावदित्यव्ययमवधौ, तद्योगेच द्वितीया सागरोपमाणीति सर्वत्र संबध्यते, स्थीयते। विवक्षिते भवेऽनयेति स्थितिः,आयुः सप्तसु रत्नप्रभाशकेराप्रभाद्यासु पृथिवीषु पृथिवीत्याख्यया समयप्रसिद्धासु यथाक्रमम् 'उत्कृष्टा उत्कर्षमापना गरीयसीत्यर्थः नारकाणां भवतीतिशेषः, यथा रत्नप्रभायां सागरोपममेकं, शर्कराप्रभायां त्रीणि सागरोपमाणि, एवं
For Private and Personal Use Only