SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SARKARISHCOURS तया इदं प्रथमताविकलः 'जीवः' आत्मा तथेति संतानवृत्तितया अनादीत्यर्थः 'क्रियते' निर्वय॑ते जीवेन मिथ्याखादिभिः कारणैरिति कर्म, ज्ञानावरणादिकमिति गाथार्थः॥३३॥ ततः किम् ? अत आह__ बहुसो अणाइसंसारसायरे नरयतिरियदुक्खाई । पत्ताई कम्मवसवत्तिजन्तुणा नत्थि संदेहो ॥३४॥ व्याख्या-'बहुशः' अनन्तकृतः 'अनादिसंसारसागरे अनर्वाचीने भवपारावारे 'नरकतिर्यग्दुःखानि' नरकतिर्यग्गतिजन्मोत्था वेदनाः 'प्राप्तानि लब्धानि कर्मवशवर्तिजन्तुनाऽनादिकर्मपरतन्त्रेणानादिना देहिना 'नास्ति सन्देहः' असिन्नर्थ न विद्यते संशयः, भवजीवकर्मणां त्रयाणामपि अनादितयाऽनन्तशो दुःखप्राप्तेनिश्चितखादित्यर्थः, गतिचतुष्टयमाविलेsपि दुःखस्य प्रायः प्राणिनां पापकारिखेन नरकतिर्यक्षुत्पादात मनासुखसंभेदवत्यौ मनुजदेवगती विहाय नरकतियेग्दुःखप्राप्तिरनन्तशो जीवस्येहोक्तेति भाव इति गाथार्थः ॥३४॥ | एवमणंतो जीवो मिच्छत्ताईनिबंधणमणंतं कम्मं । तत्तो संसारदुहसयाइं च पुणारुतं एवत्ति ॥ ३५॥ व्याख्या-एवमिति अनन्तरोक्तानादिखवत् 'अनन्तः' अविनाशी प्रध्वंसाभावशून्यतया नित्यः 'जीवः' जन्तुः 'मिथ्याख प्रतीतम् आदिशब्दादविरतिकषाययोगा गृह्यन्ते, तन्निबन्धनं मिथ्यावादिहेतुकं दीर्घवं प्राकृतखात् 'अनन्तम्' अपर्यवसितं 'कम्म' प्रसिद्धम् , इह च कर्मणो जीवेन सहानन्तपुद्गलपरावर्तानुगामुकखात् प्रवाहरूपतयाऽनन्तखं जीवस्य तु नित्यतया तद्वोद्धव्यं, ततः | कम्मेण: 'संसारदुःखशतानि भवकष्टपरम्पराः 'चः' अवधारणे 'पुनरुक्तमेव' वारंवारमेव भवन्तीति शेषः, यदुक्तम्-"रङ्गभूमिनेसा काचिच्छुद्धा जगति विद्यते । विचित्रैः कर्मनेपथ्यैर्यत्र सवैन नाटितम् ॥ १॥" अत्र चैकस्याप्यत्यन्तोच्छेदे दुःखपरम्परा SARKARINAKAM For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy