________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः
वादिकासु क्रियासु, प्रयोगश्चात्र विवक्षितः पुरुषः सम्यक्सवान् संवेगवत्त्वात् जम्बूस्खामिवदिति द्रष्टव्यः, अध्यास्य कुन्दवि- शदद्युतिसिद्धिसौधं वेगाददृष्टचरसिद्धसमाजगोष्ठयां । सम्यग्दृशोऽकृतकसातसुधापिपासोः संवेगनाम विवृतं खलु लिङ्गमेतत, इति गाथार्थः ।। द्वितीयं लिङ्गमिति पूर्ववद्रष्टव्यम् ॥
SECREADISCLOSEX
अथ तृतीयलिङ्गं३। साम्प्रतं तृतीयं लिङ्ग व्याख्यातुं तद्वतश्चिन्तामाहसम्मद्दिट्ठी जीवो भवगहणदुहाणं सुङ निविण्णो चिंतेइ । अणाइभवो अणाइजीवो तहा कम्मं ॥३३॥ व्याख्या-'सम्यग्दृष्टि:' संवेगाख्येन लिङ्गेन लक्ष्यमाणसम्यक्खो 'जीव' प्राणी 'भवगहनदुःखेभ्यः' संसारविपिनकृच्छ्रेभ्यः पञ्चम्यर्थे षष्ठी, सम्बन्धविवक्षया वा 'सुष्टु' निर्भरं निर्विष्णः' उद्विग्नः, भवत्येव हि सम्यग्दृशां जन्मजरादिपीडितानां पुनस्तप्रादुर्भावमनिच्छतां मनसि सन्तापः, यदुक्तम्-"जरामरणदौर्गत्यव्याधयस्तावदासताम् । जन्मैव किं न धीरस्य भूयो भूयस्त्र| पाकरणम् ॥१॥" 'चिन्तयति' मनसा ध्यायति 'अनादि:' प्रवाहवाहितया इतः प्रभृत्ययं जात इति प्राथम्यशून्यः, अत्र विसर्गलोपः प्राकृतखात् , एवमन्यत्रापि, भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भवः-संसारः अनादिः-अनुत्पत्तिधर्म१ सिद्धिर्मुक्तिस्तस्या कर्मकालुष्याभावात् विशदत्वं मुक्तिशिलायास्तु स्फटिकवर्णत्वेन ॥ २ गोज्यां पानभूमौ ॥
॥६६॥
For Private and Personal Use Only