SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie व्याख्या-विषयाशया-भोगतृष्णया सन्दामितं-दाम्ना पशुरिव संयमितं चित्तं यस्य स तथा, रागबाहुल्येन प्रबलभोगतृष्णानिगडितमनाः विषयैः-प्रतीतैर्विप्रयुक्तोऽपि निष्पुण्यतया तदसम्प्राप्त्या, तल्लाभेऽपि शरीरापाटवादिनोपभोगासामर्थेन वा तैर्विरहितोऽपि आस्तां तैः सम्प्रयुक्त इत्यपेरर्थः, 'परिभ्रमति' पर्यटति 'कण्डरीक इव' कण्डरीकाभिधाननृपतिरिव 'नियमतः' निःस|न्देहं 'घोरसंसारे' अतिमीपणनरकादौ, कथञ्चिद् विषयसेवाविरहिणामपि तीव्रसङ्क्लेशेन विषयतृष्णाया एवं विधफलखात किं पुनः सतततत्सेवापरायणानामिति गाथार्थः॥ कण्डरीककथा चैवमागमे श्रूयते___ जम्बूद्वीपविदेहेषु पुष्कलाश्चर्यधामनि । विजये पुष्कलावत्यामास्ते पू: पुण्डरीकिणी ॥ १ ॥ राजहंसाधिवासेन पद्मालयतया बभौ । उदश्चचित्रपत्रखात्सत्यं या पुण्डरीकिणी ॥ २॥ यदि कोऽपि पराभूति व्यधत्त तसै तथापि जनराजी । बत यत्र पराभूति वितरन्त्यप्यानशे कीर्तिम् ॥ ३ ॥ पुष्पचापस्य यत्र स्त्रीः शस्त्रीः कामिमनोभिदि । चिरसंभृतलावण्यव्ययेने वामृजद्विधिः ॥ ४ ॥ नालस्वसहं कुर्वस्तत्र प्रीणन् सितच्छेदान् । वारितारी रजोहारी महापद्मोऽभवन्नृपः॥५॥ध्रुवमेष महच्छब्दार्थान्यथानुपपत्तितः । गुणैरभ्यर्हितः पद्मानिच्छंझ मम सबनः ॥६॥ इति कौतूहलानूनं रूपदासीकृतसरम् । यं श्रीः १ पुष्कलाश्चर्याणि, संपूर्णाद्धतानि ॥ २ पराभूति, पराभवं जनराज्य इति दृश्यं, तस्मै पराभवकारिणे, पराभवं ददाविति विरोधः, अथ च पराभूतिं परेभ्योऽ लक्ष्मी विपदम् अपकारिण्यपि उपकारं कुर्वाणा कीर्ति लेभे ॥३ आलस्यं क्रियामान्यं ॥ ४ छाद्यते अनेन अन्न मिति व्युत्पत्त्या छदशब्देन बस्नमपि उच्यते, इतिः । | सितच्छदाः श्वेताम्बरा हंसाथ ॥ ५ वारितारिः, निषिद्धशत्रुः, जलतरणशीलच ॥ ६ रजोहारी बाह्याभ्यन्तरमलक्षेपी, परागमनोहरथ ॥ ७ महापद्मः सहस्रपत्रा| दिरपि ॥ ८ निच्छद्मनिर्व्याजं यथा भवति ॥ AAAAAAAAAC For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy