________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वृत्तिः
पंचलिंगी
रातस्य मृष्टमधुरशीतलतया मुखे रोचमानमपि रसालापानं ज्वरपोषकतया परिणामे दारुणं, तथा आपातमधुरा अपि विषयाः
पर्यन्ते दुर्गतिहेतुतया भीषणाः, यदाह-आपातमात्रमधुरा विपाककटवो विषोपमा विषयाः । अविवेकिजनाचरिता विवेकिजन॥५६॥ वर्जिताः पापाः॥१॥ तस्माद्धेया एवामी विवेकिनामिति तात्पयमिति गाथार्थः ॥१९॥ अथ विषयाणामेव दृष्टान्तद्वारण
हेयतां दर्शयन्नाहजइ हुज्जइ गुणो विसयाण को वि तित्थयरचक्किवलदेवा । जुत्तत्तणंपि विसए चएउं अन्भुढिया कहंणु ॥ १९॥ ___ व्याख्या-'जई' 'यदि चेत् 'भवेत् विद्येत 'गुण' सेवकानामुपकारकोऽतिशयः 'विषयाणां' शब्दादीनां 'कोपि' खल्पोऽपि तदा तीर्थकरा:-श्रीनाभेयाद्याः चक्रवर्तिनो-भरतप्रभृतयः बलदेवा-अचलप्रमुखाः, ततो द्वन्द्वः, निरतिशयरूपशालिनोऽप्यनन्यसाधारणप्राज्यसाम्राज्यसमृद्धिबन्धुरा अप्यगण्यपुण्यसम्भारप्रादुष्यनिखिलाभिलषितविषयग्रामा अप्याज्ञैश्वर्यवर्या अपि महापुरुषा एते 'जीर्णतृणमिव' जरत्तृणमिव 'विषयान्' इन्द्रियार्थान् 'त्यक्तुं' हातुम् 'अभ्युत्थिताः सर्वविरतिजिघृक्षया उद्यमवन्तः, कथं ? कुतो हेतोर्जाता इति शेषः, 'णुः' वितर्के अक्षमायां वा यथा अत्यन्तासारतया जरत्तॄणत्यागे न कस्यापि वैमनस्सं, तथा तेषां महा| सत्त्वानां ताग्विषयपरित्यागेऽपि तस्यागस्यैव महाफलतया तैनिश्चितखात् , अतो वितर्कयामि न विषयाणामणुरपि गुणोऽस्ति, न.
क्षम्यते वा तेषां सगुणवं महापुरुषखाविशेषेऽपि निदानदक्षितखेन वासुदेवानां सर्वेषामपि विषयत्यागासम्भवादिहानुपादानमिति 18 गाथार्थः ॥ १९॥ आस्तां विषयोपभोगः तदाशापि महीयसी दुरन्तेति दृष्टान्तेनाह
विसयासासंदामियचित्तो विसएहिं विप्पउत्तोवि । परिभमइ कंडरीओच नियमओ घोरसंसारे ॥२०॥
॥५६॥
For Private and Personal Use Only