SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - SALASALAALCHALISA ता ताण कए दुक्खसयनिबंधणं भयइ बहुविहं जीवो। आरंभमह परिग्गहमओ वि बंधो विपावाणं ॥१७॥ व्याख्या-'यतो'दुःखेऽपि सुखाभिमानोऽस्य जीवस्य तत्तस्माद्धेतोस्तेषां-विषयाणां 'कृते' निमित्तं विषयार्जनार्थमिति यावत् , | 'दुःखशतनिबन्धनं तदर्जनस्य दुष्करखेन शारीरमानससन्तापसन्दोहकारणं 'भजते' स्वीकुरुते 'बहुविध विचित्रं 'जीवः' प्राणी 'आरम्भं भूरिजीवोपमर्दकतया महासावधं कृषितथाविधवाणिज्यराजसेवादिकं व्यापारम् 'उद्दवओ आरंभो' इति वचनात अथेति आरम्भानन्तरं 'परिग्रहम्' आरम्भार्जितानामर्थानां भाण्डागारादिषु न्यासेनात्मायत्तताकरणं, यद्वा समर्थक्रीतानां धान्यादीनाम् आविक्रयकालं भाण्डशालादिषु स्थापनं, यदि वा आरम्भश्च महापरिग्रहश्चेति समाहारद्वन्द्वः, तदन्तरेण द्रव्यार्जनाभावेन तद्धेतुकविषयसुखानुपपत्तेः 'अतस्तु' अस्मात्पुनरारम्भात् परिग्रहाच आरम्भमहापरिग्रहाद्वा, बन्धस्तु बन्ध एव पापानां नरकादिहेतुपापकर्मरूपकर्मप्रकृतीनां भवतीति शेषः, तस्य तद्वन्धहेतुखेनाभिधानात् , तथा चागमः-"महारंभयाए महापरिग्गयाए कुणिमाहारेणं पंचिंदियवहेणं जीवा निरयाउयं कम्मं बंधति ।" इति गाथार्थः ॥ १७ ॥ ततः किमित्यत आह तो नरयवेयणाओ तिरियगईसंभवा अणेगाओ। ता जरियजंतुणो मजियाए पाणोवमा विसया ॥१८॥ व्याख्या-'तो' तस्मात् पापबन्धात् 'नरकवेदना निरययातनाः 'तीव्राः कुम्भीपाकादिकाः समयप्रतीताः 'तिर्यग्गतिसम्भवाः' शूकराश्वगवादिपशुजातिजाः शीतातपक्षुत्तृष्णादिप्रभवाः 'अनेकाः' अगण्याः, पूर्वपदाद् वेदनापदस्थहापि सम्बन्धात् वेदना भवन्तीति शेषः, पापबन्धनिबन्धनतयैव नरकादिवेदनानां प्रतीतेः, यस्मादेपा विषयिणां गतिस्तसात् 'ज्वरितजन्तोः' ज्वरव्याधितस्य पुंसः 'मार्जितायाः शिखरिण्याः 'पानोपमाः' आस्वादनसमाः 'विषयाः' इन्द्रियार्थाः शब्दादयः, यथा दाहज्व SARKAR For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy