SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ द्वितीयलिङ्ग। इयता सूत्रेणाद्यं लिङ्गं विवृतमित्यर्थः, इदानी द्वितीयलिङ्गं विवरीतुं तद्वतो निःश्रेयसाभिलाषव्यञ्जिकां चिन्तां दिदर्श-| यिषुस्तावत्प्रस्तावनामाहहा सम्मट्ठिी जीवो कम्मवसा विसयसंपउत्तोवि । मणसा विरत्तकामो ताण सरूवं विचिंतेइ ॥१४॥ | व्याख्या–'सम्यग्दृष्टिः' मिथ्याभिनिवेशोपशमेन ज्ञापितसम्यग्दर्शनो जीवो भव्यसत्त्वः, कर्मवशाच्चारित्रावारकमोहनीयोदयात् 'विसिन्वन्ति' बन्नन्ति स्वसौन्दर्येण वश्यं देहिनं कुर्वन्ति 'विषयाः' स्रकचन्दनवनितादयस्तेषु संप्रयुक्तो च्यासक्तोऽपि हातुमशक्ततया कायेन तानुपभुञ्जानोऽपीत्यर्थः, आस्तां तदन्य इत्यपेरर्थः, 'मनसा' चेतसा विरक्तकामो विषयदोषश्रवणदर्शनाभ्यां तेषु व्यावृत्ताभिलाषस्तेषां विषयाणां खरूपं तात्त्विकं स्वभावं 'विचिन्तयति' विशेषेण तेषु व्यासङ्गनिवृत्तये परामृशतीति गाथार्थः ॥ १४ ॥ सम्प्रति तच्चिन्तामेवाह__ आवायसुंदरावि हु भाविभवासंगकारणत्तणओ। विसया सप्पुरिसाणं सेविजंता वि दुहजणया ॥१५॥ व्याख्या-'आपातसुन्दरा अपि' मनोदर्शनस्पर्शनादीन्द्रियानन्दकतया आमुखमधुरा अपि आस्तां तदितरे इत्यपेरर्थः 'हु' पूरणे, भाविभवासङ्गकारणखात् , अभिष्वङ्गपोषकलेन भविष्यजन्मपरम्पराप्रवाहप्राप्तिहेतुखात् रागद्वेषमूलखाच संसारस्य, विषयाः प्रतीताः 'सत्पुरुषाणां' विवेकसाकल्येन विदितविषयदोषाणां महाशयानां 'सेव्यमाना अपि' भुज्यमाना अपि, दुःखजनकाः कायि For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy