SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द ग्रहणप्रभृति मासकल्पप्रायोग्यक्षेत्राधभावेन यतीनां धृतिसंहननादिवैकल्पेन शैक्षागीतार्थादीनां भिक्षादिषु मर्यादालोपेन च गीता थैव्यतो मासकल्पविहारादिप्रतिषेधेनाचरणा कल्पव्यवस्थापनात, तथा च व्यवहारभाष्यकार:-"धिइसंघयणाईणं मे राहाणिं| च जाणिउं थेरा । सेह अगीयत्थाणं ठवणा आइनकप्पस्स ॥१॥" तथा-"कालाइ दोसओ पुण न दवओ एस कीरइ नियमा। भावेण उ कायबो संथारगवच्चयाईहिं ॥१॥" इत्यादि, एताश्च गीतार्थाचरणा आगमेनैव वयं व्यवहारामो नाचरणयेत्याग्रहेणा[तिक्रामतामसगृह एव, तथा च पञ्चकल्पभाष्यम्-"कुलगणसंघट्टवणा जाओ य कया तहिं तु थेरेहिं । कुलबहुमजायाविव ताओ य नइक्कमिजंति ॥१॥" तद्वंशजानां विरुद्धाचरणाकारिपूर्वपुरुषसन्तानप्रभवाणां यत्याभासानां तासु तत्पूर्वजैः खकपोलरचनया सिद्धान्ताननुपातिखेन कल्पिताखाचरणासु पूर्वोक्तासु बहुमानोऽस्मर्दूश्यानां सर्वज्ञकल्पलेन तदादिष्टाचरणानां श्रुताविसंवादितया प्रामाण्याभिमानेनात्यन्तिकपक्षपातस्तस्माद्वृहिदिग्बन्धादिः सर्वोऽप्यसद्ह उक्तस्वरूपो भवति ज्ञायते मिथ्या |भिनिवेशाभिव्यञ्जकत्वादिति गाथाद्वयार्थः ॥ १२॥ अधुना प्रकारान्तरेणासद्हमाह सढयाइ पक्खसाहणजुत्ती वि असग्गहो मुणेयच्चो । जणरंजणत्थपसमो न होइ समत्तगमओ उ॥१३॥ व्याख्या-'शठतया' मायावितया लाभख्यातिरञ्जनाद्यर्थमित्यर्थः, 'पक्षः' सत्पक्षः शुद्धं जिनमतमिति यावत् , तस्य साधने समर्थने युक्तिरपि सतर्कसाधनदृष्टान्तोपन्यासोऽप्यसगृहो ज्ञातव्यः, उपलक्षणं चैतत्-शठस्य हि शुद्धं प्ररूपयतोऽपि राजसभायां साधनदृष्टान्तोपन्यासेनान्मतव्यवस्थापनया प्रौढप्रतिवादिमदक्षोदेन प्रवचनप्रभावनां विदधानस्यापि देशनातिशयेन भूयसो भव्यान् सम्यक्त्वादिगुणस्थानेष्वारोपयतोऽपि मिथ्यादृष्टित्वेन तत्त्वाश्रद्धालुतया लोकरजनाद्यर्थमेव प्रवृत्तेरङ्गारमईकादेरिव सम्य For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy